SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ द्वितीयो रागविवेकाध्यायः तत्रादौ ग्रामरागाणां केषांचिल्लक्ष्म चक्ष्महे । देशीरागादिहेतूनां शेषाणां तत्र तत्र तु ॥ २० ॥ शुद्धसाधारितः षड्जमध्यमया जातस्तारषड्जग्रहांशकः । निगाल्पो मध्यमन्यासः पूर्णः षड्जादिमूर्छनः ॥२१॥ शोकोत्साहकरुणादिदीपकात्मक्रियादित: । (?) जायन्ते च यतो नाम क्रियाङ्गास्तेन हेतुना ॥" इति । अङ्गाश्रयेण समुत्पन्ना उपाङ्गानि । सर्वे मिलिता रागाश्चतुःषष्टय धिकं शतद्वयं भवन्ति ॥ ९-१९ ॥ (क०) उद्देशानुक्रमेण लक्षयितुमाह-तत्रादाविति । तत्र ग्रामरागादिषु मध्ये आदौ प्रथमं केषांचिद् ग्रामरागाणाम् ; ये तु देशीरागादिहेतवो न भवन्ति तेषामित्यर्थः । देशीरागादिहेतूनाम् ; देशीरागा रागाङ्गादयः । अत्रादिशब्देन भाषा विभाषा अन्तरभाषाश्च गृह्यन्ते । तेषां हेतवो जनकाः । तादृशानां शेषाणां, तत्र तत्र ; जन्यतत्तद्देशीरागादिलक्षणावसरे, लक्ष्म चक्ष्महे इत्यावृत्तिः । अयमभिप्रायः—देशीरागादीनामेव केषांचिदधुनाप्रसिद्धत्वात् तत् सङ्गालक्ष्यन्त इति ॥ २० ॥ (सं०) तत्रेति । केषांचिद् ग्रामरागाणां लक्षणं पूर्व कथ्यते । देशीरागकारणभूतानां त्वन्येषां तत्र तत्र देशीरागप्रकरणे लक्षणं वक्ष्याम इति ॥२०॥ (क०) शुद्धसाधारितं लक्षयति—पड्जमध्यमयेत्यादिना । षड्जमध्यमया संसर्गजविकृतजात्या जनकभूतया जातो जनित इत्यर्थः । तार Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy