SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ३३० संगीतरत्नाकरः मङ्गलाचार प्रबन्धः यस्तु गद्येन पद्येन गद्यपद्येन वा कृतः || २९७ ।। कैशिक्या मङ्गलाचारः सनिःसारुः खरान्वितः । इति मङ्गलाचारप्रबन्धः । धवलप्रबन्धः त्रिविधो धवलः कीर्तिर्विजयो विक्रमस्तथा ॥ २९८ ॥ चतुर्भिश्चरणैः षड्भिरष्टभिश्च क्रमादसौ । (सं०) वीरश्रियं लक्षयति — पदैरिति । पदैर्विरुदैव निबद्धा वीरश्रीः ॥ २९७ ॥ I ( क ० ) अथ मङ्गलाचारं लक्षयति — यस्त्वित्यादि । गद्यपद्येनेति द्वंद्वैकवद्भावः । कैशिक्येति । कैशिकी नाम शुद्धपञ्चमस्य भाषारागः ; तया गातव्यः । सनिःसारुरिति । निःसारुतालेन सहितः । ' विरामान्तौ लघू निःसारुको मतः' इति तस्य लक्षणं वक्ष्यते । स्वरान्वित इति । पदान्ते अर्धान्ते वा स्वरैरन्वितः कर्तव्यः । अत्र सस्वरं प्रथमार्ध मुद्ग्राहः । सस्वरं द्वितीयार्धं ध्रुवः । आभोगः पृथक् कर्तव्यः । तेनायं त्रिधातुः । तालादिनियमान्निर्युक्तः। पदस्वरतालबद्धत्वात् व्यङ्गः । भावनीजातिमान् ॥ २९७, २९८ ॥ (सं०) मङ्गलाचारं लक्षयति - यस्त्विति । कैशिकीगगेण निःसारुतालेन स्वरसहितो यो गीयते स मङ्गलाचारः । स त्रिविध:-- गद्यजः, पद्यजः, गद्यपद्यश्चेति ॥ २९७, २९८ ॥ (क०) अथ धवलं लक्षयति - त्रिविध इत्यादि । चतुर्भिश्वरणैः रचितः कीर्तिधवलः, पड्भिः रचितो विजयधवलः, अष्टभिः रचितो विक्रम Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy