________________
चतुर्थः प्रबन्धाध्यायः
३२९ राहडीप्रबन्धः यत्र वीररसेन स्यात् संग्रामरचितस्तुतिः। बहुभिश्चरणैः सात्र राहडी परिकीर्तिता ।। २९६ ॥
इति राहडीप्रबन्धः।
वीरश्रीप्रबन्धः पदैश्च विरुदैर्बद्धा वीरश्रीरिति गीयते ।
इति वीरश्रीप्रबन्धः। बिस्दैः रचयित्वा पाटान् प्रयुञ्जीतेत्यर्थः । अत्र सस्वरं प्रथमार्धमुग्राहः । सपाट द्वितीया) ध्रुवः । पदैराभोगः कल्पनीयः । तेनायं त्रिधातुः । छन्दोनियमानियुक्तः । तेनकाभावात् पञ्चाङ्गः । आनन्दिनीजातिमान् ॥ २९५ ॥
(सं०) पद्धडी लक्षयति-युग्मेति । युग्मयोः द्वितीयचतुर्थयोः पादयोरन्ते अनुप्रासयुता, पद्धडीच्छन्दसा पाटान्तैः स्वरसहितैर्बिरुदैश्च कृता पद्धडी ॥ २९५ ॥
(क०) अथ राहडी लक्षयति-यत्रेति । संग्रामरचितस्तुतिरिति वीररसेनेत्यस्य स्पष्टीकरणम् । तत्र बहुषु चरणेषु केचनोद्ग्राहाः, केचन ध्रुवाः कर्तव्याः । पृथगाभोगः कल्पनीयः । तेनायं त्रिधातुः । तालाद्यनियमादनियुक्तः । पदतालबद्धत्वात् द्वयङ्गः । तारावलीजातिमान् ॥ २९६ ॥
(सं०) राहडी लक्षयति-यत्रेति । बहुभिः पादैः संग्रामो वर्ण्यते यस्यां सा राहडी ॥ २९६ ॥
(क०) अथ वीरश्रियं लक्षयति-पदैरित्यादि । पदैरुद्ग्राहः । बिस्दैर्धवः । आभोगः पृथक् कर्तव्यः । तेनायं त्रिधातुः। तालाद्यनियमादनिर्युक्तः । पदतालबिरुदबद्धत्वात् त्र्यङ्गः । भावनीजातिमान् ॥ २९७ ॥
42
Scanned by Gitarth Ganga Research Institute