SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रबन्धाध्यायः ३१९ चतुर्मुखप्रबन्धः स्वरैः पाटैः पदैस्तेनैवर्णैः स्थाय्यादिभिः क्रमात् ।।२७८।। चत्वारश्चरणा गेया ग्रहे न्यासश्चतुर्मुखे । इति चतुर्मुखप्रवन्धः। सिंहलीलप्रवन्धः स्वरैः पादैश्च विरुदैस्तेनको विरच्यते ॥ २७९ ॥ सिंहलीलेन तालेन सिंहलीलः स उच्यते । __ इति सिंहलीलप्रवन्धः। (सं०) त्रिपथं लक्षयति–पादत्रयमिति । यत्र पाटैबिरुदैः स्वरत्रयेण पादा गीयन्ते, स त्रिपथः ॥ २७८ ॥ (क०) अथ चतुर्मुखं लक्षयति स्वरैरित्यादि । स्थाय्यादिभिः क्रमादिति । स्थायिवर्णेन स्वरैः प्रथमः पादः, आरोहिवर्णन पाटैर्द्वितीयः, अवरोहिवणेन पदैस्तृतीयः, संचारिवणेन तेनैश्चतुर्थ इति क्रमो द्रष्टव्यः । ग्रहे उग्राहे न्यासः कर्तव्यः । अत्र प्रथमं पादद्वयमुद्ग्राहः। द्वितीयं पादद्वयं ध्रुवः । पदान्तरैराभोगः कर्तव्यः । तेनायं त्रिधातुः । तालाद्यनियमादनियुक्तः । बिरुदाभावात् पञ्चाङ्गः । आनन्दिनीजातिमान् ॥ २७८, २७९ ॥ (सं०) चतुर्मुखं लक्षयति-स्वरैरिति । स्थायिनि वर्णे स्वरैरेकः पादः । आरोहिणि वर्णे पाटैद्वितीयः । अवरोहिणि वर्ण पदैस्तृतीयः । संचारिणि वर्णे तेनैश्चतुर्थः । ग्रहे समाप्ति: । स चतुर्मुखः ॥ २७८, २७९ ॥ (क०) अथ सिंहलीलं लक्षयति-स्वरैरित्यादि। सिंहलीलेन तालेनेति । "तालाद्यन्तं दत्रयं सिंहलीलः' इति तस्य लक्षणं वक्ष्यते । अत्र 1 तालाध्याये तु 'लघ्वन्ते' इति पठ्यते । Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy