SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ३१८ संगीतरत्नाकरः विजयप्रबन्धः यत्र तेनैः स्वरैः पाटैः पदैविजयतालतः। गीयते विजयस्तेनैासः स विजयो मतः ॥ २७७ ॥ इति विजयप्रबन्धः। त्रिपथप्रबन्धः पादत्रयं त्रिपथके पाटैश्च बिरुदैः स्वरैः। इति त्रिपथप्रबन्धः। (सं०) वस्तु लक्षयति-मात्रा इति । प्रथमतृतीयपञ्चमपादेषु पञ्चदश मात्राः। द्वितीयतुरीययोः सूर्याः द्वादश मात्रा: । प्रथमार्धेऽन्ते स्वराः पाटाः । द्वितीयार्धस्यान्ते स्वरास्तेनकाः । तदनन्तरं पूर्वलक्षितो दोहकः । तेनकेषु समाप्तिः । तत् वस्तु ॥ २७५, २७६ ॥ (क०) अथ विजयं लक्षयति—योति । अत्र तेनादीनां पाठक्रमस्य विवक्षितत्वात्तथैव प्रयोक्तव्याः । विजयतालत इति । 'विजयः प्लुतो लघुः' इति तस्य लक्षणं वक्ष्यते । अत्र तेनैः स्वरैरुग्राहः कर्तव्यः । पाटः पदैर्भुवः कर्तव्यः । पदान्तरैराभोगः कल्पनीयः । तेनायं त्रिधातुः । तालनियमान्नियुक्तः । बिरुदाभावात् पञ्चाङ्गः । आनन्दिनीजातिमान् ॥ २७७ ॥ ___ (सं०) विजयं लक्षयति-यत्रेति । यत्र राज्ञां विजयो गीयते तेनैः स्वरैः पाटैः पदैविजयतालेन, तेनकेषु समाप्तिः, स विजयः ॥ २७७ ॥ (क०) अथ त्रिपथं लक्षयति–पादत्रयमित्यादि । पारेकः पादः । बिरुदैर्द्वितीयः । स्वरैस्तृतीयः । तत्र प्रथमं पादद्वयमुद्ग्राहः। तृतीयः पादो ध्रुवः । पदैराभोगः कल्पनीयः । तेनायं त्रिधातुः । तालाद्यनियमादनियुक्तः । तेनकाभावात् पञ्चाङ्गः । आनन्दिनीजातिमान् ॥ २७८ ।। Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy