SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रबन्धाध्यायः गाथाप्रबन्धः 'आर्येव प्राकृते गेया स्यात् पञ्चचरणाथवा ' ॥ २३९ ॥ त्रिपदी षट्पदी गाथेत्यपरे सूरयो जगुः । इति गाथाप्रबन्धः । भङ्गेण लीलेत्यादि । एवमेव पञ्चविंशतिगुरुभङ्गेण वधूरित्यन्तं ज्ञेयम् । अन्ये भेदा: छन्दोलक्षणतः छन्द: शास्त्रतो ज्ञातव्याः | आर्या सामान्यलक्षणमुक्तं वृत्तरत्नाकरे "लक्ष्मैतत् सप्तगणा गोपेता भवति नेह विषमे ज: । षष्टोऽयं नलघू वा प्रथमेऽर्धे नियतमार्यायाः ॥ षष्ठे द्वितीयलात् परके न्ले मुखलाच्च स यतिपदनियमः । चरमेऽर्थे पञ्चमके तस्नादिह भवति षष्ठो लः || ” इति ॥ २२५ - २३१ ॥ २९३ (क) अथ गाथां लक्षयति-आर्येत्यादि । उक्तलक्षणायैव प्राकृते प्राकृतपदं विषयीकृत्य गीयते चेत्, तदा गाथा स्यादिति । अनेनार्यायाः संस्कृतपदविषयत्वमुक्तं भवति । पदव्यतिरिक्तमन्यदार्यागतं लक्षणमनुसंधेयम् । केषां - चिन्मतेन पदभेदाभावादार्यैव चरणन्यूनाधिकभावेन गाथा भवतीति लक्षणान्तराणि दर्शयति - पञ्चचरणाथ वेत्यादिना ॥ २३१, २३२ ॥ (सं०) गाथां लक्षयति — आर्यावदिति । प्राकृतभाषायामार्यालक्षणवती गाथेत्युच्यते । अथवा पञ्चचगणवती मात्रया सा कार्या । मतान्तरेण तस्या द्वैविध्यमाह — त्रिपदीति । पादत्रयवती, पादषट्कवती च गाथेति केचन वदन्ति ॥ २३१, २३२ ॥ 1 आर्यावदिति सुधाकरपाठः । 2 पञ्चचगणाथवा इति सुधाकरपाठः । Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy