SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ २९२ संगीतरत्नाकरः छन्दोलक्षणतो ज्ञेयाः शेषा भूरितरा भिदाः। इत्यार्याप्रबन्धः। विंशतिगुरुभङ्गेण क्षमादयः क्रमेण योजनीयाः। एवं पञ्चविंशतिगुरुभङ्गत एवोद्दिष्टभेदपरिसमाप्तेरन्तिमस्य षड्विंशस्य गुरोर्भङ्गो नास्त्येवेत्यवगम्यते । लक्ष्माण्यमूनि स्विति । अत्र तुशब्दोऽवधारणार्थे ; अमून्येवेति । षष्ठगणव्यतिरिक्तसर्वगुरुमारभ्यैकादिगुरुभङ्गान्तान्येव लक्ष्मीवृद्धयाद्यार्याभेदानां लक्षणानि; इतो व्यतिरिक्तानि लक्ष्णान्तराणि न सन्तीत्येवकारार्थः । अमूनीति प्रतिनिर्दिश्यमानलक्ष्मपदलिङ्गापेक्षया नपुंसकनिर्देशः । छन्दोलक्षणत इत्यादि । शेषा भूरितरा भिदा इति। आर्यायाः पथ्याविपुलादयो बहवो भेदाः छन्दोलक्षणतः "त्रिप्वंशकेषु पादो दलयोरायेषु दृश्यते यस्याः । पथ्येति नाम तस्याः प्रकीर्तितं नागराजेन ॥" इत्यादिकाः छन्दःशास्त्रादेव ज्ञेयाः । आर्यासामान्यस्वरूपमपि तत एव ज्ञेयमिति भावः । मेलापकस्यानुक्तत्वादयं त्रिधातुः । छन्दोनियमान्नियुक्तः । स्वरपादतालबद्धत्वात् त्र्यङ्गः । भावनीजातिमान् ॥ २२५-२३१ ॥ (सं०) आर्या लक्षयति-अर्धान्त इति । अर्धान्ते प्रथमदलान्ते चरणान्ते पादान्ते वा स्वरान् न्यस्य, आदिमं दलं द्विर्गेयम् । दलान्तरं द्वितीयदलमन्यगीतिसदृशधातुकमर्धतः सकृद्गीयते सार्धगीतिरिति लभ्यते । आभोगे गातुः वाग्गेयकारस्य नाम, सार्या । ग्रहे उग्राहे समाप्तिर्यस्याः सा ग्रहमुक्तिका । तस्या भेदानाह-लक्ष्मीरिति । लक्ष्म्यादयो वध्वन्ता: षड्रिंशतिर्भेदा भवन्ति । तेषां लक्षणमाह-षष्ठादिति । षष्ठे गणे आर्यासु सर्वगुरुत्वासंभवात् षष्टादन्यैर्गणैः सर्वगुरुभिः प्रथमा लक्ष्मी: स्यात् । परास्तु वृद्धयादयः क्रमश एकैकगुरुभङ्गेण लघुद्वयवृद्ध्या ज्ञातव्याः । यदाह पिङ्गलनाग:-"गुरु टुटइ बे ळहु चळइ तं तं णाम बिआरि" इति । एकगुरुभङ्गेण वृद्धिः, गुरुद्वयभङ्गेन बुद्धिः, गुरुत्रय Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy