SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २३० संगीतरत्नाकरः गणैला तत्र वर्णगणैर्जाता गणैला परिकीर्तिता। सा भवेत् त्रिविधा शुद्धा संकीर्णा विकृता तथा ॥१६॥ शुद्धा चतुर्विधा नादावती हंसावती तथा। नन्दावती च भद्रावत्यथासां लक्ष्म कथ्यते ॥ १७ ॥ गणादिनियमस्त्वासामविखण्डद्वयाश्रयः। नादावती नादावती पञ्चभि:न्तैिः स्यादृक्कमण्ठयोः ॥ १८ ॥ ऋग्वेदोत्था सिता विप्रा कैशिकी वृत्तिमाश्रिता। पाश्चालरीतिर्भारत्याः प्रीत्यै शृङ्गारवर्धनी ॥ ६९ ।। हंसावती रगणैः पञ्चभिः सान्तः प्रोक्ता हंसावती वुधैः । द्वितीयताले हिन्दोले क्षत्रिया यजुरुद्भवा ।। ७० ॥ लोहितारभटी वृत्ति लाटी रीतिं च संश्रिता। रौद्रे रसे चण्डिकायाः प्रीतये विनियुज्यते ॥ ७१ ॥ (क०) तत्र प्रथमोद्दिष्टां गणैलां सप्रभेदां लक्षयितुमाह-तत्र वर्णगणैरित्यादिना । वर्णगणाः पूर्वोक्ता मयरसतजभनाः । तैः नादावत्यादीनां शुद्धानां चतसृणां लक्षणेषु कैशिक्यादयश्चतस्रो वृत्तयः पाञ्चाल्यादयश्चतस्रो रीतयश्च क्रमेण योजिताः । तासां लक्षणानि संक्षिप्योच्यन्ते । तत्र वृत्तिर्नाम " वाङ्मनःकायजा चेष्टा पुरुषार्थोपयोगिनी ।" इति सामान्यलक्षणम् । Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy