________________
तृतीयः प्रकीर्णकाध्यायः
१९७ तत्तिरोभावयति; कदाचित्तिरोभूतं तदेव सव्याजं प्रकटीकरोति ; तथोक्तलक्षणालप्तिरपि स्वस्थानचतुष्टयैः स्वतन्त्रं तत्तद्रागं किंचिद्दर्शयन्ती तं तिरोभावयति ; कदाचित्तिरोभूतं तमेव प्रतिग्रहभञ्जनाभ्यां प्रकटीकरोतीति सहृदयप्रतिभाविषय एषोऽर्थः। आलापस्तु पुमान् श्मश्वादिकमिव सदा रागमाविर्भावयति । नपुंसकमिवालपनं तदुभयसाधारणस्थितिं दर्शयतीति सूक्ष्मेक्षिकयावगन्तव्यम् ॥१९७-२०२।।
__ (सं०) रूपकालप्ति लक्षयति-रूपकरथेनेति । प्रबन्धस्थेन रागेण तालेन चोपलक्षिता या आलप्तिः क्रियते, सा रूपकालप्तिः । सा द्विप्रकाराप्रतिग्रहणिका, भञ्जनी चेति । तत्र प्रतिग्रहणिकां लक्षयति-विधायेति । आलप्तेः स्थायमवयवं स्वस्थानरूपं पूर्व विधाय गीत्वा रूपकस्य प्रबन्धस्यावयवो भागो यदि प्रतिगृह्यते उदाह्यते, तदा प्रतिग्रहणिकालप्तिरित्युच्यते । भञ्जन्यालप्तिस्तु द्विविधा-स्थायभञ्जनी, रूपकभञ्जनी चेति । तत्र स्थायभञ्जनी लक्षयतियदेति । यस्यामालप्तौ रूपकसंस्थितः प्रबन्धाश्रितो य: स्थायोऽवयवस्तस्य प्रबन्धस्य पदमानेन नानाप्रकारोऽनेकभङ्गिकः क्रियते, सा स्थायभञ्जनी । रूपकभञ्जनी लक्षयति-तैः पदैरिति । तैः प्रबन्धस्थैः पदैः तेन प्रबन्धस्थेन मानेन समग्रमेव रूपकमन्यथान्यथाभङ्गिविशेषेण यस्यामालप्तौ गायको गायेत् , सा रूपकभञ्जनी । आलप्तीनां सामान्यलक्षणं कथयतिवर्णालंकारेति । ननु पूर्वमालप्तेः साधारणं लक्षणमुनं प्रकटीकरणमिति । तत् प्रशस्ताप्रशस्तसाधारणम् । इदं तु प्रशस्तालप्तिलक्षणमिति संतोषं कुरु । पार्श्वदेवेन षोडशविधालप्तिरुक्ता
"सर्वगीतप्रबन्धानामादावालप्तिरिष्यते । सालप्तिर्द्विविधा ज्ञेया विषमा प्राञ्जलेति च ॥ साक्षरानक्षरा चेति द्विविधापि चतुर्विधा । चतुर्विधाप्यष्टविधा सतालातालभेदतः ॥
सा पुन: षोडशविधा शुद्धसालगभेदतः ।" इति ॥ १९७-२०२॥
Scanned by Gitarth Ganga Research Institute