SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १९० सत्त्वादयो गुणा न स्वस्मिन्नात्मनि मुहूर्तमप्यवतिष्ठन्ते । एवं शब्दादय आकाशादयो घटादयश्च । उक्तं च इति । इति । संगीतरत्नाकर: इति । तथा सर्वमूर्त्यात्मभूतानां शब्दादीनां गुणे गुणे । त्रयः सत्त्वादिधर्मास्ते सर्वत्र समवस्थिताः || ततश्च कथितोदकवच्चैषामनवस्थितवृत्तिता । अजस्रं सर्वभावानां भाष्य एवोपवर्णिता ॥ रूपस्य चात्ममात्राणां शुक्लादीनां प्रतिक्षणम् । काचित् प्रलीयते काचित् कथंचिदभिवर्धते ॥ प्रवृत्तिमन्तः सर्वेऽर्थास्तिसृभिश्च प्रवृत्तिभिः । सततं न वियुज्यन्ते वाचश्चैवात्र संभवः ॥ इति च । टाबाद्यन्तशब्दा एवैतामवस्थां गोचरयन्तीत्यर्थः । पुरुषो यद्यप्यपरिणामी, तथापि — अचेतनेषु चैतन्यं संक्रान्तमिव दृश्यते । प्रतिबिम्वकधर्मेण यत्तच्छब्द निबन्धनम् ॥ यश्चाप्रवृत्तिधर्मार्थश्चितिरूपेण गृह्यते । अनुयातीव सोऽन्येषां प्रवृत्तीर्विप्वगाश्रयाः ॥ सामान्यमपि गोत्वादि व्यंक्तरव्यतिरेकतः । प्रवृत्तिधर्म तद्वारा शशशृङ्गादिवाक्षु तु ॥ स्यादुत्तरपदार्थस्य सद्भावाल्लिङ्गयोगिता । प्रवृत्तेरपि विद्यन्ते तिस्रो ह्येताः प्रवृत्तयः । पुंनपुंसकता स्त्रीत्वं तेन स्यादन्यलिङ्गता ॥ Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy