SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ तृतीय: प्रकीर्णकाध्यायः १८९ ल्युडर्थस्याविर्भावतिरोभावोभयान्तरालस्य तमःपरिणामरूपस्य मूर्तिधर्मस्य नपुंसकत्वेन दर्शनाल्ल्युडन्तस्य नपुंसकलिङ्गतेति । तदेवं भावसाधनानां घनाद्यन्तानामालापादिशब्दानां सामान्येन भावार्थत्वेऽपि तदवस्थाविशेषभूताविर्भावतिरोभावस्थितिपरतया तेषां घक्तिन्ल्युडन्तानां क्रमेण पुंस्त्रीनपुंसकलिङ्गता द्रष्टव्या । भावो नाम साध्यरूपस्य धात्वर्थस्य सिद्धत्वाकारः । तदवस्थाविशेषा आविर्भावादयः । तथाचोक्तं हरदत्तमित्रैः " आख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता । प्रकल्पिता यथा शास्त्रे स घादिप्वपि क्रमः ।। साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना । सत्त्वभावस्तु यस्तु स्यात् स घञादिनिबन्धनः ॥ न विना लिङ्गसंख्याभ्यां सत्त्वभूतोऽर्थ उच्यते । इत्यतन्त्रमुपादानं तयोर्न तु विवक्षितम् ॥" इत्युपक्रम्य " स्तनकेशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः । उभयोरन्तरं यच्च तदभावे नपुंसकम् ॥ आविर्भावस्तिरोभावः स्थितिश्चेत्यनपायिनः । धर्मा मूर्तिषु सर्वासु लिङ्गत्वेनानुदर्शिताः ॥ आविर्भाव उपचयः पुंस्त्वम् ; तिरोभावोऽपचयः स्त्रीत्वम् ; अन्तरालावस्थास्थितिर्नपुंसकत्वमित्यर्थः । कस्य पुनराविर्भावादिकं लिङ्गम् ? सत्त्वरजस्तमसां गुणानां तत्परिणामरूपाणां च तदात्मकानां शब्दस्पर्शरूपरसगन्धानाम् । शब्दादितत्तत्संघातरूपाश्च सर्वा मूर्तयः । क्षणपरिणामस्वभावाश्च 'cf. Padamañjari on Kāśikā, IV. 1-3. Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy