SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १५० संगीतरत्नाकरः शब्दानुशासनज्ञानमभिधानप्रवीणता । छन्दःप्रभेदवेदित्वमलंकारेषु कौशलम् ॥ ३ ॥ रसभाव परिज्ञानं देशस्थितिषु चातुरी । अशेष भाषाविज्ञानं कलाशास्त्रेषु कौशलम् ॥ ४ ॥ तौर्यत्रितयचातुर्य हृयशारीरशालिता । लयतालकलाज्ञानं विवेकोऽनेककाकुषु ॥ ५ ॥ प्रभूतप्रतिभोद्भेदभाक्त्वं सुभगगेयता । देशीरागेष्वभिज्ञानं वाक्पटुत्वं सभाजये ।। ६ ।। 'रोषद्वेषपरित्यागः सार्द्रत्वमुचितज्ञता । शब्दानुशासनमिति । शब्दानुशासनं व्याकरणशास्त्रम् ; तस्य ज्ञानम् । एतेन प्रथमं तावत् सुशब्दापशब्दविवेचकेन भवितव्यमित्यर्थः । अभिधानम् अमरकोशादि । छन्दःप्रभेदाः अनुष्टुवादयः । अलंकाराः उपमादयः अनुप्रासादयश्च । रसाः शृङ्गारादयः । भावाः विभावादयः । देशस्थितिषु पाञ्चाल्यादिषु । कलाशास्त्रेषु संगीतशास्त्रादिपु । तौर्यत्रितयं नृत्तगीतवाद्यम् । शारीरम् अत्रैत्र वक्ष्यमाणलक्षणम् । ल्याः द्रुतादयः । तालाः चच्चत्पुटादयः । कलाः आवापादयो निःशब्दा ध्रुवादयः सशब्दाश्च । काक्रवः स्वरकाक्कादयः षड्विधाः स्थायेषु वक्ष्यमाणलक्षणाः । प्रतिभा प्रज्ञ. विशेषः । यथाहुः— 1 'स्मृतिर्व्यतीत विषया मतिरागामिगोचरा । बुद्धिस्तात्कालिकी प्रोक्ता प्रज्ञा त्रैकालिकी मता ॥ प्रज्ञां नवनवोन्मेषशालिनीं प्रतिभां विदुः ॥ " इति । रोषः वाचिकोऽमर्षः । द्वेषः मानसिकः । साईत्वं सरसत्वम् । 1 राग इति सुधाकरपाठः (6 Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy