SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रकीर्णकाध्यायः अथ प्रकीर्णकं कर्णरसायनमनाकुलम् । देशीमार्गाश्रयं वक्ति शार्ङ्गदेवो विदां वरः ॥ १ ॥ वाग्गेयकारलक्षणम् वाङ् मातुरुच्यते गेयं धातुरित्यभिधीयते । वाचं गेयं च कुरुते यः स वाग्गेयकारकः ॥ २ ॥ 1 (क० ) द्वितीयेऽभिहितलक्षणानां ग्रामरागादीनां स्वरूपसाक्षात्कारस्य गातृनिर्मातृपरतन्त्रत्वेन तत्स्वरूपजिज्ञासायां तदादिलक्षणपरं प्रकीर्णकं वर्णयितुं प्रतिजानीते - अथ प्रकीर्णकमित्यादिना । कर्णरसायनत्वेऽनाकुलत्वं हेतुः । अनाकुलत्वं चासंकीर्णतयार्थप्रतिपादनाद्भवति । तेन सुश्राव्यत्वं भवतीत्यर्थः । देशीमार्गाश्रयमिति विशेषणमत्र लिलक्षयिषितानां वाग्गेयकारादीनां देशीमार्गोभयसाधारणत्वात् तल्लक्षणपरस्य ग्रन्थस्यापि देशीमार्गोभयाश्रयत्वेन प्रकीर्णकत्वद्योतनार्थम् । प्रकीर्णकत्वं च ग्रन्थस्य विषयविभागेन विना प्रवृत्तत्वमुच्यते । वक्तीति स्वस्मिन्नपि परत्वारोपेण प्रथमपुरुषनिर्देशः स्वस्य गर्वराहित्यद्योतनाय । यथा – “ केनाप्यत्र मृगाक्षि राक्षसपतेः कृत्ता च कण्ठाटवी " इत्यादि । शार्ङ्गदेवोऽहं वच्मीत्यर्थः। गातृव्यापारविषयगीतनिर्मातृत्वेन प्राधान्यात् प्रथमोद्दिष्टस्य वाग्गेयकारस्य लक्षणं नामनिरुक्तिपूर्वकमाह – वाङ् मातुरित्यादिना । मातुधातुशब्देोद्देशावपि लोकप्रसिद्ध्यनुरोधेन वाग्गेयपर्याये प्रागुक्ताविति मन्तव्यौ । Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy