________________
१३४
[प्रकरणम्
मधुकरी
संगीतरत्नाकरः ककुभोत्था मधुकरी विभाषा सग्रहान्तिमा । गापन्यासा निसरिधपञ्चमैर्बहुलैर्युता ॥
इति ककुभविभाषे।
त्रवणा
शालवाहनी रिग्रहांशा धैवतान्ता संपूर्णा रिगसंगता ।
ककुभान्तरभाषेयं विज्ञेया शालवाहनी ॥
इति ककुभान्तरभाषा। अथ टक्के
त्रवणा टक्कभाषा सग्रहान्तांशा रिपोज्झिता । समन्द्रा गमतारा सनिधभूरिर्दिनान्तिमे ॥
यामे गेया वीररसे गीयते रुद्रदेवता । त्रवणोद्भवा सान्ता मांशा बहुरिया गापन्यासा पवर्जिता ।
टक्कभाषा सदा गेया स्पर्धायां प्रवणोद्भवा । वेरी टक्कवेरञ्जिका सान्ता पग्रहांशाल्पपञ्चमा ।
समयो रिगयोश्चापि संगता पाडवा मता ॥ मध्यमग्रामदेहा टक्कजा मध्यमग्रामदेहा मांशग्रहान्तसा ।
असंपूर्णा च संकीर्णा समयोः संगता भवेत् ॥ मालववेसरी सान्ता न्यंशग्रहा पाल्पा सगयोः समयोर्युता ।
___मूलाख्या पाडवा टक्कभाषा मालववेसरी ॥ छेवाटी साद्यन्तांशा समनिगसंवादा मध्यमोज्ज्वला ।
छेवाटी टक्कजा मूला संपूर्णा याष्टिकोदिता ॥ पञ्चमलक्षिता सग्रहान्ता पञ्चमांशा तारा सगमपञ्चमैः ।
रिहीना टक्कजा भाषा ज्ञेया पश्चमलक्षिता ॥
Scanned by Gitarth Ganga Research Institute