SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकर: [ प्रकरणम् (क०) इह ग्रन्थकारेणोद्दिष्टानामपि लक्ष्ये प्रसिद्धिवैधुर्यात् अधुनाप्रसिद्धरागाजनकत्वाच्चानुक्तलक्षणानां भाषारागादीनां स्वरूपपरिज्ञानाय मतङ्गाञ्जनेयादीनां मतानुसारेण लक्षणानि संक्षिप्य वक्ष्यन्ते । तत्रादौ सौवीरजाः वेगमध्यमा सौवीरजा सग्रहान्ता संपूर्णा सपसंगता । १३२ मध्यमांशा स्मृता वेगमध्यमा मध्यमोज्ज्वला || सौवीरा साधारिता स्यान्मन्यासा सग्रहांशिका | रिमयोः समयोर्युक्तगमका सकलस्वरा ॥ गान्धारी करुणे सान्ता संपूर्णा निग्रहांशका । सौवीरजा इति सौवीरभाषाः । अथ ककुभभाषा स्याद्भिन्नपञ्चमी । मापन्यासा रिमपधबहुलाङ्गोज्झितांशिका ॥ काम्भोजी काम्भोजी ककुभस्य स्याद्भाषा धांशग्रहान्तिमा । सधसंवादिनी पूर्णा रिपसंवादिनी तथा ॥ मध्यमग्रामी ककुभे मध्यमग्रामी भाषा धांशग्रहांशिका | माध्यमग्रामिकी पूर्णा संकीर्णा रिधसंगता || साधारिता गान्धारी अथ ककुभे— भिन्नपञ्चमी माध्यमग्रामिकीति । स्वजनकस्य ककुभस्य द्विग्रामत्वेन स्वस्या तथात्वे प्राप्ते अनेन विशेषवचनेनास्यां षड्जस्त्रिश्रुतिः प्रयोक्तव्य इत्यवगम्यते । पूर्णेति विशेषणेनात्र ग्रामभेदकता न; प्रयोगाभावात् । संकीर्णेति । पूर्वं भाषाणां 'संकीर्णा देशजा मूला छायामात्रेति नामभिः' इति याष्टिकमतेन चातुर्विध्यं दर्शितम् । तत्र संकीर्णत्वं नाम मतङ्गमतेन स्वराख्यत्वमिति पूर्वं व्याख्यातम् । तत् द्रष्टव्यम् । Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy