SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ २] द्वितीयो रागविवेकाध्यायः १३१ मालवा मालवा तस्य भाषा स्याद् ग्रहांशन्यासधैवता । षड्जधौ संगतौ तत्र स्यातानृषभपञ्चमौ ॥ १९३॥ धाधासारि सामापामा गारीमाधा पाधाधानी धासाधा । इति मालवा । द्राविडी गान्धारांशग्रहा धान्ता द्राविडी तद्विभाषिका । द्विश्रुत संगतौ तत्र भवेतां षड्जधैवतौ ॥ १९४ ॥ गासागामा धाधा पामा धाधा गास निधाधास गासन धापनिमागा मनिधा । इति द्राविडी । इति रागाङ्गादिनिर्णयाख्यं द्वितीयं प्रकरणम् इति श्रीमदनवद्यविद्याविनोद श्रीकरणाधिपति श्रीसोढलदेवनन्दननिःशङ्कश्रीशार्ङ्गदेवविरचिते संगीतरत्नाकरे रागविवेकाध्यायो द्वितीयः मालवेति । तस्यां षड्जधैवतयोः संगतिः ऋषभपञ्चमयोश्च । द्राविड लक्षयतिगान्धारेति । धान्ता; धैवतन्यासा । द्विश्रुत्योर्निषादगान्धारयोः संगति: षड्जधैवतयोश्च ॥ १९०-१९४॥ इति रागाङ्गादिनिर्णयाख्यं द्वितीयं प्रकरणम् इति श्रीमदन्ध्रमण्डलाधीश्वरप्रति गण्डभैरव श्रीमदनपोतनरेन्द्रनन्दन भुजबलभीमश्रीसिंहभूपालविरचितायां संगीतरत्नाकरटीकायां संगीतसुधाकराख्यायां रागविवेकाध्यायो द्वितीयः Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy