SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 10 १५१ शकारः] न०र० को०-उल्लास ४, परीक्षण : २१५ विभावर्जनितो भावोऽनुभावैरनुबोधितः। व्यभिचारिभिरास्फीतो रस इत्यभिधीयते ॥ १४७ नटोऽनुकरणत्वेन भावुका पात्रमुच्यते । सभ्यनायकयोस्तस्याश्रयत्वं मन्यते परे ॥ इति सर्वमिदं सम्यग् रमणीयतरं मतम् । . एवं सति नृपेणोक्तो नृप एव रसाश्रयः ॥ एवं रसाश्रयं सम्यग् राजा सर्वरसाश्रयः। नाग्र(?अग्रे)स्फुरत्सर्वरसः सम्यगेवं न्यरूपयत् ॥ अथ शृङ्गाररसः। शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः। बीभत्साद्भुतशान्ताश्व नव नाट्ये रसाः स्मृताः॥ यथा चाह भगवान् भरताचार्यः सूत्रेण "विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः।" मन्ये गुणागुणविशेषविवेकदक्षः शृङ्गारमेव सकलेषु रसेषु मुख्यम् । यत् खीयमर्धमु(?म)पहाय तनोबंभार तत्राद्रिराजतनयाममोच्यमीशः॥ धर्मार्थकामाः सममेव सेव्या इतीतिहासस्य च मूलमेषः। शृङ्गारनामा रस इत्यतोऽय मादौ मया लक्षणमुच्यतेऽस्य ।। पुंनार्योश्चेष्टितं यच्च रत्युत्थं स्यात्परस्परम् । तदाहुः केपि शृङ्गारं केऽपि त्वपरथा जगुः ॥ १५५ सुखप्रायेष्टसंपन्न ऋतुमाल्यादिसेवकः । पुरुषः प्रमदायुक्तः शृङ्गार इति संज्ञितः॥ १५५ ऋतुमाल्यालङ्कारैः प्रियजनगान्धर्वकाव्यसेवाभिः। उपवनगमनविहारैः शृङ्गाररसः समुद्भवति ॥ १५६ . नयनवदनप्रसादैः स्मितमधुरवचोधृतिप्रमा(?मो)दैश्च ।। मधुरैश्चाङ्गविकल्पैस्तस्याभिनयः प्रयोक्तव्यः ॥ १५७ संभोगे(गो) विप्रलम्भेन विना न रतिकारकः। कषायिते हि वस्त्रादौ भूयान रागो यतो भवेत् ॥ 1 ABO सर्वसर्वरसः। 2 Verse: 159-161 from. ना. शा. A-6. verses 46-48 (N, S.). 20 १५८30
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy