________________
नृ०० को-उल्लास ४, परीक्षण ३ [अड्तालः उद्घाहादिष्वडुताले लयः कार्यो विलम्बितः । विकल्पतः कलासाः स्युः खटकामुखपूर्वकाः। सूच्यन्ता हस्तका द्वित्राः कार्या सर्वे ध्रुवे पदे ॥ १३७
॥ इत्यडतालः॥४॥ यती लयास्त्रयः प्रोक्ता हस्तकाः षोडश क्रमात् । पनकोशादिदोलान्ताः,
॥ इति यतिनृत्यम् ॥५॥
प्रतिताले तु हस्तकाः॥ कार्याः पुष्पपुटाद्यास्तु चतुरस्रावसानकाः ।... 10 द्रुतो लयोऽथ मध्यो वा,
॥ इति प्रतितालनृत्यम् ॥ ६॥
___ तथा स्यादेकतालिके ॥ १३९ उत्तानवश्चिताचं तु,
नलिनीपाकोशकम् । अथ(१व)साने विधायैतद्धस्तषोडशकं परम् ॥ संयुतैर्वियुतैर्वाथ करैर्नृत्यं समाचरेत् । । मध्ये मध्ये भ्रमरिकां गीतान्ते च प्रदक्षिणम् ॥ निसारुरासकं वाद्यास्तालाः खेच्छाकरः करः। आलापोऽपि सहस्तः स्याल्लयो हस्तानुगः स्मृतः॥ दूरे पादप्रचारः स्याद् झम्पायामिति तद्विदः । डोम्बडे हस्तको ज्ञेयः खेच्छयानुलयास्त्रयः॥ षट्खेतेषु च गीतेषु कलासः स्याद्विकल्पतः। कल्पतालविधि यो मण्ठकस्येव सूरिभिः॥
॥ इति देशीगीतनृत्यविधिः ॥
। [नवरसाः।] अथ नवा(१व) [रसा] लिख्यन्ते।
जीयाद्विसदृशी काचिदपूर्वेव सरखती। यस्यां समभवचित्रं काव्यरत्नाकरो महान् ॥ ननु कोऽयं रसो नाम पदार्थस्तद्विचार्यते । रस्यते वा सहृदयैः खयं वारस्यते रसः॥
25
30