________________
(४५
० ० को०-उल्लास ३, परीक्षण ४ [रेचकलेक्षण यदपि च गदितोऽङ्गहारमध्ये
मुनिविभुना ननु रेचकः समस्तः । तदपि च पृथगुच्यते यतोऽयं फलजनने गदितः पृथक् समर्थः॥
[रेचकलक्षणम् ।] स भवति कररेचकः क्रमाद् या । भ्रमणततिः परितोऽति तूर्णजाता। विरचितवरहंस हंस] पक्षाकृतित इति प्रचुरोपनृत्यकीं ॥ .. ..
॥ इति कररेचकः ॥ १॥ स भवति चरणोद्भवः प्रयत्ना- .
नमनमथोन्नमनं झटित्युपेतः। अतिचलचरणाप्रदेशभूतो य इह चलाचलपाणिभागजातः॥
॥ इति चरणरेचकः ॥२॥ भ्रमणमिह करोति सर्वदिक्षु यदिह कटी कटिरेचकं तमाहुः।
॥ इति कटिरेचकः ॥ ३॥
प्रसृत विरलिताङ्गुलेस्तिरश्चा
भ्रमणलयेन गलस्य याति शीघ्रा ॥ गलगतविधुतभ्रमिः प्रदिष्टो
मुनिविभुना किल कण्ठरेचकोऽयम् । ....... ॥इति कण्ठरेचकः ॥ ४॥ इति समुदितरेचकैश्च नृत्यं : भवति मनोहरणं मुनीश्वराणाम् ॥
॥ इति रेचकलक्षणम् ॥
- 1 ABO वरहंसपक्षाकृति । In भ. को. पृ. ८१३ विरचितवरहंसहसपक्षाहति । HIB रेचितः। 3 B प्रसूति ।