SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ परिवृत्तीका सु० २० को०-उल्लास ३, परीक्षण ई अङ्गहारान्तरेष्वेव परिवर्त्य विधिस्त्वयम् ॥ मुक्त्वाऽन्त्यकरणद्वन्द्वं केचिदाद्यं विमुच्य च। आहुः पुरातनाचार्या भट्टाभिनवपूर्वकाः॥ ॥इति परिवृत्य(?त्त)रेचितः ॥ १३ ॥ चतुरं करणं कृत्वा भुजङ्गाश्चितकं ततः। गृध्रावलीनकं कार्यमङ्गद्वन्द्वे पृथक् ततः॥ विक्षिप्ते करणे कार्ये उद्वृत्तं सूचिसंज्ञकम् । नितम्बं करणं पश्चाल्लतावृश्चिकमेव च ॥ नवभिः करणैः प्रोक्त उद्धृत्तः पूर्वसूरिभिः। विक्षिप्तोवृत्तके द्विश्वेदधिकं तवयं भवेत् ॥ ॥ इत्युकृत्तः॥१४॥ विक्षिप्तमञ्चितं चैव गण्डसूचि ततः परम् । गङ्गावतरण पश्चादर्धसूचि ततः परम् ॥ दण्डपादं च वामाङ्गे साधयेत्तदनन्तरम् । चतुरं भ्रमरं चाथ नूपुराक्षिप्तके तथा ॥ अर्धवस्तिकसंशं च नितम्बं करिहस्तकम् । उरोमण्डलकं चैवेत्येवं पश्चदशाब्रुवन् । अङ्गहारे च संभ्रान्ते करणानि मनीषिणः । ॥ इति संभ्रान्तः ॥ १५॥ वैशाखरेचितं चैव वृश्चिकं द्विः प्रयुज्य च ।। निकुहकाभिधं कुर्यात्ततः कार्यों लताकरौ । अन्तिमेन सहैतानि षट् स्युः स्वस्तिकरेषिते ॥ ॥ इति खस्तिकरेचितः ॥ १६ ॥ कटिभ्रान्तमर्गलं च पार्श्वजानु तथैव च । हरिणप्लुतकं कार्य ततः प्रेडोलितं पुनः॥ . अवाहित्थं चापसृतं छिन्नं च कटिपूर्वकम् । करणं नवमं कार्य नवीनभरतोक्तितः। गोविन्वप्रियसंज्ञोऽयं कार्यों गोविन्दपूजने ॥ ॥ इति गोविन्दप्रियः॥ १७ ॥
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy