SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 १६८ नृ० १० को०- उल्लास ३, परीक्षण २ तिरश्चैकेन पादेन समुत्प्लुत्य निपत्य चेत् । एकपादेन पृथ्व्यां चेत्तिष्ठेत्तिर्यक्कतिस्तदा ॥ ॥ इति तिर्यकरणम् ॥ २४ ॥ तिर्यक्वस्तिकमुत्य स्यात्तिर्यक् स्वस्तिके कृते ॥ ॥ इति तिर्यक्स्वस्तिकम् ॥ २५ ॥ * पृथ्व्यां स्थित्वांसयुग्मेन कृत्वा चैवोत्कटासनम् । करणं चाञ्चितं कृत्वा धृत्वाङ्गान्तरमम्बरे ॥ बाहुभ्यां भुवमाक्रम्य भ्रामं भ्रामं च पूर्ववत् । तिष्ठेत् प्रतिदिशं यत्र तत् स्कन्धभ्रान्तमुच्यते ॥ ॥ इति स्कन्धभ्रान्तम् ॥ २६ ॥ * सूचीनां त्रितयं प्रोक्तं तद्विधा परिकीर्तितम् । भौमाकाशविभेदेन समाद्यन्यतमां यदि ॥ करणानि दधत्यन्ते सूचीं प्राकथितानि तु । सूच्यन्तानि तदा तानि जायन्त इति सूरयः ॥ ॥ इति सूच्य[न्त ] म् ॥ २७ ॥ * सव्येतरेण पादेन स्थित्वा सव्याहिकुञ्चनात् । सव्यावर्त भ्रमेद्यत्र सा बाह्यभ्रमरी मता ॥ ॥ इति बाह्यभ्रमरी ॥ २८ ॥ * अस्या एव विपर्यासादन्तर्भमरिका भवेत् ॥ ॥ इति अन्तर्भ्रमरी ॥ २९ ॥ * स्थित्वैकेनाङ्गिणा भूमौ दण्डवच्चोत्क्षिपेत् परम् । सव्यावर्त भवेद्यत्र सा छत्रभ्रमरी मता ॥ ॥ इति छत्रभ्रमरी ॥ ३० ॥ अङ्घ्रिस्वस्तिकमाधाय तिर्यग्भ्रमणतो भवेत् ॥ ॥ इति तिरिपभ्रमरी ॥ ३१ ॥ * [ तिर्यकरणम् ३५ ३६ ३७ ३८ ३९ ४१ ४२ ४३ ४४ 1 Khandasūci, Viśamasūci and Samasūci- all the three seem to be described here.
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy