SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ स्खलितः ] नृ० र० को ० - उल्लास- १, परीक्षण ३ यो निर्गच्छति दुःखेन स्खलितः सोऽभिधीयते । अन्त्यावस्थासु सव्याधौ प्रसूतिसमयेऽपि च ॥ ॥ इति स्खलितः ॥ २ ॥ ** निर्गच्छति मुहुर्वक्रान्निरस्तः शब्दवान् मुहुः । श्रान्ते रोगे च दुःखार्ते विनियुक्तो बुधैरयम् ॥ ॥ इति निरस्तः ॥ ३ ॥ * मनस्यन्यपरेऽकस्माद्वर्तमानस्तु विस्मितः । चिन्तायामद्भुते चार्थे विस्मये च प्रवर्तते ॥ ॥ इति विस्मितः ॥ ४ ॥ घ्राणेन मन्दमापीतो मरुदुल्लासितो मतः । हृद्यगन्धे च संदिग्घेष्वर्थेषुक्तो विचक्षणैः ॥ ॥ इति उल्लासितः ॥ ५ ॥ * * निरुद्धश्चिरमामुक्तो विमुक्तः कथ्यते मरुत् । प्राणायामे तथा ध्याने योगे चैष नियुज्यते ॥ ॥ इति विमुक्तः ॥ ६ ॥ दीर्घः सशब्दनिष्क्रान्तो घाणतः प्रसृतो मरुत् । ॥ इति प्रसृतः ॥ ७ ॥ उष्णावुच्छ्रासनिःश्वासौ सशब्दौ वक्रनिर्गतौ ॥ चलावुक्तौ तु तौ चिन्तौत्सुक्यशोकेषु कीर्तितौ । ॥ इति चलौ ॥ ८ ॥ * * स्वस्थौ स्वभावजी प्रोक्तौ वायू खस्थक्रियासु तौ ॥ ॥ इति स्वस्थौ ॥ ९ ॥ ॥ इति नवधानिलः ॥ * समाद्या वायवोऽन्वर्थ' नामानः किन्तु कथ्यते । विनियोगः समो ज्ञेयः सहजे कर्मणि स्थितः ॥ ॥ इति समः ॥ १ ॥ * 1 4 वायवोस्त्वर्थ, BC वायवोस्त्वर्थनमोनः । ९५ १०६ १०७६ १०८ १०९ ११० १११ ११२ 10 15 20 ११३ 25
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy