SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ ( २५८ ) वसंतराजशाकुने - दशमो वर्गः । एतेषु चाद्येऽहनि खंजरीटो दृष्टोऽतिदृष्टः सहसोपविष्टः ॥ भोज्यान्नपानप्रियगोऽश्ववस्त्रलाभाय रोगोपशमाय चेष्टः ॥ ॥ १४ ॥ तुरंगमातंग महोरगेषु सरोजगोच्छत्रवृषेषु येन ॥ पूर्वे च दृष्टोऽहनि खंजरीटो निःसंशयं तस्य भवेन्नृपत्यम् ॥ १५ ॥ धान्यार्थलब्ध्यै महिषीध्वजादौ स्याद्गोमये गोरसलाभमाह || वस्त्रस्य लाभाय च शाद्वलादौ लाभाय गेहस्य च नावि दृष्टः ॥ १६ ॥ ॥ टीका ॥ दूर्वा दूव इति प्रसिद्धा नृपमंदिरं राज्ञः सौधं तेषु अट्टालगृहोपरि गृह जंबालः फलं प्रसिद्धं प्रवालं किसलयं क्षीरद्रुमः क्षीरवृक्षः वटादिः उपस्कृततोरणं नवीनं यत्तोरणं तेषु ॥ १३ ॥ एतेष्विति ॥ आद्येऽहनि एतेषु स्थलेषु सहसोपविष्ट इति अकस्मादागत्योपविष्टः अतिहृष्टः प्रमोदवान् खंजरीट इष्टः सन्भोज्यान्नपानप्रियगोऽश्ववस्त्रलाभाय रोगोपशमाय च बुधैरिष्टं वांछितम् ॥ १४ ॥ तुरंग इति ॥ तुरंग: अश्वः मातंगो गजः महोरगः सर्पः तेषु सरोजगोच्छत्रवृषेष्विति सरोजं कमलं गौः प्रतीता छत्रमातपत्रं वृषः धवलः तेषु येन एतेषु स्थलेषु पूर्वत्राऽहनि खंजरीटो दृष्टः तस्य निःसंशयं नृपत्वं भवेत् ॥ १५ ॥ धान्यार्थ इति ॥ महिषीध्वजादौ स्थितः खंजरीटः धान्यार्थ लब्ध्यै स्यात् गोमये स्थितः गोरसलाभहेतुः स्यात् स एव शाइलादौ स्थितः वस्त्रस्य लाभाय स्यात् नावि दृष्टः गेहस्य लाभाय ॥ भाषा ॥ घरके ऊपर, आदिले स्थान होय, जल होय, कमल, गोवर, गौकी पीठ दूर्वा राजाके महल, अटाली, कीचफलकूं फल, दूधके वृक्ष, वडकूं आदिले तिनमें और नवीन तोरणपै ॥ १३ ॥ एतेष्विति ॥ प्रथम दिवसमें इन स्थलनमें सहज बैठजाय वा अकस्मात् आयकरके बैठ जाय अतिप्रसन्न ऐसो खंजरीट भोज्यान्नपान, अपनो प्यारोगी, अश्ववस्त्र, इनको लाभादि करै. और रोगकी शांति करै ॥ १४ ॥ तुरंग इति ॥ जा पुरुषकूं घोडा, हाथी, सर्प, कमल, गो, छत्र, वृष इनपै बैठो हुयो पूर्वदिन में खंजरीट दीखे तो ता पुरुषकूं निः संदेह राजापनो होय ॥ १५ ॥ धान्यार्थ इति ॥ भैंस और ध्वजादिकनपे खंजरीट बैठो होय तो धान्य अर्थकी प्राप्ति होय. और गोबरपै स्थित होय तो गोरसकी प्राप्ति करे. जो हरी घासादिक Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy