SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ खंजनप्रकरणम् । ( २५७) शिखोद्गमेनाथ अदृश्यतां गतो योऽदृष्टपूर्वः पुनरेव यदिने ॥ एतेषु सद्यः स खगो यदा भवेदृग्गोचरः खंजनकः स्थलेषु ॥१०॥ गजाश्वशालोपवनांतरेषु प्रासादहाग्रसितांबरेषु ॥ दध्यादिभांडेऽप्युपलितभूमौ सुवर्णराजांतिकचामरेषु ॥ ११ ॥ सच्छायद्यांकुरपुष्पपत्रफलावनमेषु शुभद्रुमेषु ॥ येनोपविष्टः प्रथमेऽह्नि दृष्टस्तस्य श्रियं खंजनको ददाति॥१२॥ नद्यादिनीरांबुजगोपुरीषं गोपृष्ठदूर्वानृपमंदिरेषु ॥ अडालजंबालफलप्रवालक्षीरद्रुमोपस्कृततोरणेषु ॥ १३॥ ॥ टीका ॥ शिखोद्गमेनेति ॥ येन एतेषु स्थलेषु खंजनकः प्रथमेहि दृष्टः अवलोकितः यः शिखोद्गमेनादृश्यतां प्राप्तः पुनः यस्मिन्नेव दिने दृग्गोचरी भवति अदृष्टपूर्वः स खंजनकः तस्य श्रियं ददाति ॥ १० ॥ तेषु केष्वित्यपेक्षायामाह गजाश्वेति ॥ गजानामश्वानां च शाला बन्धनस्थानमुपवनं गृहसमीपवर्ति वनं तेषु प्रासादहाग्रसितांबरेष्विति प्रासादः देवभूपानां गृहं हाग्रं सौध,गं सितांबरं श्वेतवस्त्रं तेषु दध्यादि । भांड इति दध्यादिना भृतं भांडं भाजनम् । आदिशब्दाद्धृतादीनां परिग्रहः । उपलिप्तभूमाविति उपलिप्ता छगणादिना या भूमिस्तस्यां सुवर्णराजांतिकचामरोग्विति सुवर्ण प्रतीतं राजांतिकं राज्ञः समीपंचामरं बालव्यजनं तेषु ॥११॥ सच्छायति॥ सच्छायद्यांकुरपुष्पपत्रफलावनम्रष्विति छायया सह वर्तमानाः सच्छायाः हृद्याः मनोहराः अंकुरपुष्पपत्रफलैरवनम्राः शुभद्रुमाः सहकारप्रभृतयः तेषु ॥१२॥ नद्यादीति ॥ नदीप्रभृति यत्स्थलं नीरं पानीयमम्बुजें कमलं गोपुरीष छगणं गोपृष्ठंप्रतीतं ॥ भाषा॥ हे ये जाननो ॥ ९॥ शिखोद्गमेनेति ॥ हाथी, घोडा इनके बंधनके स्थान और उपवन जो घरके समीपवन, देवमंदिर, राजमहल इनके ऊपर शिखरपै जो ध्वजादिकको श्वेतवस्त्र और दही, दूध, घतादिकनकर, भरे पात्रादिक और गोवरकर लिपी पृथ्वी और सुवर्णकी दंडीके चमर, पंखा अथवा राजाके समीप चमर, पंखा इनस्थलनमें स्थित खंजन प्रथम दिवसमें दीख जो शिखा प्रगट हुयेपै अदृश्य होय फिर जा दिना नेत्रनसू दखैि वाको नाम अदृष्टपूर्व खंजन है सो वो जा पुरुषकू दखै ता पुरुषकू श्री देवे ।। १० ।। . ११ ॥ सच्छायेति ।। छायासहित सुन्दर होय, पुष्पफल अंकुरपत्र इनकरके नम्र होय, शुभ होय, ऐसे वृक्षनपै बैठो होय प्रथमदिबसमें दखै तो वो खंजन ता पुरुषकं श्रीदेवे ॥ १२ ॥ नद्यादीति ॥ नदीक Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy