SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ पोदकीरुतेअधिवासनप्रकरणम्। (१०१) बल्यर्घपुष्पाक्षतधूपदीपैरभ्यर्चयेदक्षिणया च सर्वान् ॥ होमो दशांशेन च मंत्रजापात्ततो विधेयो मधुना समिद्भिः॥ ॥ १७॥ मंत्रप्रतिष्ठार्चनजाप्यहोमेष्वावाहने चैवं नियोजनीयः ॥ पृष्ठे दिनेशं प्रविधाय कुर्यात्पूर्वोदितं सर्वमुदारचेताः॥१८॥ ॥ टीका ॥ स्त्रयुग्मानि तैस्तैराच्छाद्य तान्पूर्वोक्तान् शुक्लेन सूत्रेण विवेष्टयेत् ॥ १६ ॥ बल्यर्घति ॥ सर्वान् तानभ्यर्चयेत् पूजयेत् कैः बल्यर्घपुष्पाक्षतधूपदीपैरिति बलिः भक्ष्य वस्तुनः पुरो ढौकनम् । अर्घः जलभृतपात्रस्य पुरः स्थापनं पुष्पाणि प्रसिद्धानि अक्षताः तंडुलाः धूपः पूर्व प्रतिपादितः दीपः प्रसिद्धः दक्षिणया चेति दक्षिणा होमानंतरं ब्राह्मणेभ्यो दानाह द्रव्यं तथा ततः अभ्यर्चनानंतरं मंत्रजापात् मधुना क्षौदेण समिद्भिः होमो विधेयः केन दशांशेन दशमभागेनेत्यर्थः ॥ १७ ॥ मंत्र इति । एषःमंत्रः प्रतिष्ठार्चनजाप्यहोमेषु आह्वाने च नियोजनीयः तत्र प्रतिष्ठा सर्वेषां सम्यक्प्रकारेण स्थापनम् अभ्यर्चनं चंदनादिनाऽनुलिपनं जाप्यो जपः होमः पूर्वोक्तस्तेषु आवाहनं पूर्वोक्तानामाह्वानं तस्मिन्नर्थाद्विसर्जनेऽपि एतत्सर्वं पूर्वोदितं पृष्ठे पृष्ठभागे दिनेशं सूर्य विधाय कृत्वा कुर्यात् । कीदृक उदारचेता इति उदारं असंकुचितं चेतश्चित्तं यस्य स तथा पृष्ठे रविं विधायेति प्रतिपादनान् रजन्यामेव सर्व कुर्यादित्यर्थों लभ्यते अथवा दिवसस्य चतुर्थप्रहरपटिका चतुष्कमारभ्य रात्रिघटिकाचतुष्टयं यावत्पश्चिमादिशः प्रदीप्तवान्सूर्यस्तावत्सूर्यस्य पृष्टविधानत्वं युक्तमित्यर्थः । मंत्रश्चायम् । ॐ नमो भगवति पोदकि कृष्णशकुनिश्वेतपक्षिणि पांडवो ॥ भाषा॥ कर फिर अखंडित श्वेतवस्त्रनके युग्मलेके आच्छादनकरके फिर सबकू श्वेतसूत्रकर वेष्टन करे ॥ १६ ॥ बल्यपइति॥ फिर उनको अर्घ्य पुष्प अक्षत धूपदीप बलिभक्ष्य और दक्षिणा इन. करके पूजन करै ता पीछे जापते दशांश सहत और समिधाकरके हवन करनो ॥ ॥ १७ ॥ मंत्र इति ॥ मूलमें ऊपर कह्यो जो मंत्र तासूं प्रतिष्ठा देवतानको स्थापन और चंदनादिक करके लेपन करनो जप होम आवाहन या एकही मंत्रसूं सब करनो निर्जनव Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy