SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ ९६६-९७२ . उणादिगणविवृतिः । . अज्यजियुजिभृजेर्ग च ॥ ९६६ ॥ एभ्योस् प्रत्ययो भवति] गकारश्चान्तादेशो भवति।। अनौप व्यक्त्यादिषु । अङ्गः क्षत्रियनाम गिरिपक्षी व्यक्तिश्च ॥ अज क्षेपणे च । अगः क्षेमम् ॥ युजंपी योगे । योगी मनो युगं च ।। भृजेड भर्जने | भो रुद्रो हविस्तेजश्च ॥ ९६६।। अर्तेरुरासे च ।। ९६७ ॥ ऋक् गतौ । इत्यस्मादस् प्रत्ययो भव त्यस्य च उर इति अर्श इति च। तालव्यशकारान्त आदेशो भवति ।। उरो वक्षः ।। अशासि गुहादिकीलाः ।।९६७। येन्धिभ्यां यादेधौ च ।। ९६८ ।। ___ यांक प्रापणे । अिइन्धपि दीप्तौ । इत्याभ्यामस् प्रत्ययो भवति यथासंख्यं च याद् एध इत्यादे शौ भवतः ।। यादो जलदुष्टसत्त्वम् ।। एध इन्धनम् ।।९६८।। चक्षः शिवा ॥ ९६९।। . चक्षिक् व्यक्तायां वाचि | इत्यस्मादस प्रत्ययो भवति स च शिवा [भवति ||] चक्षः । ख्याः । उभे अपि रक्षोनामनी ।। आचक्षा वाग्मी ।। आख्याः प्ररूपाश्च बृहस्पतिः ॥ संचक्षा ऋत्विक् ।। नृचक्षा राक्षसः ।। ९६९ ।। वस्त्यनिभ्यां णित् ।। ९७० ।। आभ्यां णिदस् प्रत्ययो भवति ।। वसिक् आच्छादने | वासो वस्त्रम् ।। अग कुटिलायां गतौ । आगोपराधः ।। ९७०।। मिथिरज्युषितपृशभूवष्टिभ्यः कित् ।। ०७१ ।। 'एभ्यः किदस प्रत्ययो भवति ।। मिथग् मेधाहिंसयोः । मिथः परस्परं रहसि चेत्यर्थः ॥ रजी रागे । रजो गुणोशुभं पांशुश्च ॥ उषू दाहे । उषाः संध्यारुणो रात्रिश्च ।। तृ प्लवनतरणयोः । तिरस्करोति | तिरः कृत्वा काण्डं गतः । तिर इत्यन्तर्धावनृजुल्वे च ।। पृश् पालनपूरणयोः । पुरः पूजायाम् । तथा च पठन्ति नमः पूनायाम् । पुरश्चेति ।। शृश् हिंसायाम् । शृणाति तद्वियुक्तमिति शिर उत्तमाङ्गम् ।। भू सत्तायाम् । भुवो लोकोन्तरिक्षं सूर्यश्च ।। वशक् कान्ती । उशा रात्रिः ।। ९७१ ॥ विधेर्वा ।। ९७२ ॥ विधत् विधाने । इत्यास्मादस् प्रत्ययो भवति स च किडा [ भवति ॥] वेधा विद्वान्सवित्प्रजापतिश्च ॥ विधाः स एव ।। ९७२ ॥ Aho! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy