SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ १६ हेमचन्द्रव्याकरणे नुवो धयादिः || ९७३ ॥ णूत् स्तवने इत्यस्माद्धकारादिस्थकारादिव किदस् प्रत्ययो भवति || नूधा नूथाश्व सूतमागधी || धादौ गुणमिच्छन्त्येके । नोधा ऋषिऋत्विक् ॥ ९७३ ॥ वयःपयःपुरोरेतोभ्यो धागः || ९९४ || एभ्यः परात् डुधांग्क् धारणे च । इत्यस्मात्किदस् प्रत्ययो भवति ॥ त्रयोधा युवा चन्द्रः प्राणी च ॥ पयोधाः पर्जन्यः || पुरोधाः पुरोहित उपाध्यायश्व || रेतोधा जनकः || ९७४ ॥ नत्र ईहेरे धौ च ॥ ९७५ ॥ पूर्वात् हि चेष्टायाम् । इत्यस्मादस् प्रत्ययों [ भव ] त्यस्य च एह एध इत्यादेशौ भवतः || अनेहा: काल इन्द्रश्वन्द्रश्च || अनेधा अनिर्वायुश्व || ९७५ ॥ विहायस् सुमनस्पुरुदंशस्पुरूरवोङ्गिरसः || ९७६ ॥ एतेस्प्रत्ययान्ता निपात्यन्ते || विपूर्वाज्जहातेर्जिहीतेर्वा योन्तश्च । विजहातीति विहाय भाकाशम् । विजिहीत इति विहायाः पक्षी || सुपूर्वान्माने स्वश्च मुटु मानयन्ति मन्यन्ते वा । मुमनसः पुष्पाणि ॥ पुरुं दशतीति पुरुदंशा इन्द्रः || पुरुपूर्वाद्रीतेर्दीर्घश्व पुरु रौति । पुरूरवा राजा यमुर्वशी चकमे || भङ्गेरिरोन्तश्र । अङ्गतीति । अङ्गिरा ऋषिः || ९७६ || [९७३-९८० पातेर्जस्थसौ ॥ ९७७ ॥ यांक् रक्षणे । इत्यस्माज्जस् थस् इत्येतौ प्रत्ययौ भवतः || पाजो बलम् || पाथ उदकमन्त्रं च ॥ ९७७ ॥ सुरीभ्यां तम् ॥ ९७८ ॥ आभ्यां तस् प्रत्ययो भवति || खुं गतौ । स्रोतो निर्झरणम् | सुष्ठु स्रवतीति सुस्रोनाः || रींश् गतिरेषणयोः | रेतः शुक्रम् ॥ ९७८ ॥ अतणिभ्यां नस् ॥ ९७९ ॥ आभ्यां नस् प्रत्ययो भवति || ऋक् गतौ । अर्णो जलम् ॥ इण्क् गतौ । ९७९ ।। एन: पापमपराधश्व रिवेः क् च ॥ ९८० ॥ रिपी विरेचने | इत्यस्मान्नस् प्रत्ययो [भव त्यस्य च मकारान्नादेशों मवति || रेक्णो धनं पापं च ॥ ९८० ॥ Aho ! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy