SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ उणादिगणविवृतिः । यजिगुन्धिदहिदसिजनिमनिभ्यो युः || ८०१ ।। एभ्यो युः प्रत्ययो भवति ॥ यजीं देवपूजादौ । यज्युरभिरध्वर्युर्यज्वा शिष्यश्व || शुन्ध शुद्धैौ । शुन्ध्युरभिरादित्यः पवित्रं च || दहं भस्मीकरणे | दह्युरभिः || दसूच् उपक्षये । दस्युश्चौरः || जनैचि प्रादुर्भावे | जन्युरपत्यं पिता वायुः प्रादुर्भावः प्रजापतिः प्राणी च || मनिच् ज्ञाने | मन्युः कृपा क्रोधः शोकः क्रतुश्च ।। ८०१ । ८०१-८०७] १३३ भुजेः कित् || ८०२ ॥ भुजंप् पालनाभ्यवहारयोः । इत्यस्मात्किद्युः प्रत्ययो भवति || भुज्युरग्निरादित्यो गरुडो भोग ऋषिव || ८०२ ॥ सर्वैरय्वन्यू || ८०३ ।। सृ गतौ । इत्यस्मादयु अन्य इति प्रत्ययौ भवतः || सरयुर्नदी वायुश्र || दीर्घान्तमिममिच्छन्त्येके | सरयूः । श्लिष्टनिर्देशात्तदपि संगृहीतमेव || सरण्युर्मेधोश्विनोर्माता समेघो वायुच || ८०३ || भूक्षिपिचरेरन्युक् || ८०४ ॥ एभ्यः किदन्युः प्रत्ययो भवति ॥ भू सत्तायाम् | भुवन्युरीश्वरोनिश्र || क्षिपत् प्रेरणे । क्षिपण्युर्वायुर्वसन्तो विद्युद [ र्थः ] कालश्च || चर भक्षणं । चरण्र्वायुः || ८०४ ॥ मुत्यु || ८०५ ॥ मृत् प्राणत्यागे | इत्यस्मात्किच्युः प्रत्ययो भवति || मारयतीति मृत्युः कालो मरणं च ॥। ८०५ ॥ चिनोपीम्यशिभ्यो रुः ।। ८०६ ।। एभ्यो रुः प्रत्ययो भवति ॥ चिग्द् चयने | चेरुर्मुनि: || णींग् प्रापणे | नेरुर्जनपदः ।। पींड्च् पाने । पेरुः सूर्यो गिरिः कलविङ्कश्व || मींड्च् हिंसाया - म् | मेरुर्देवाद्रिः || अशौटि व्याप्तौ । अश्रु नेत्रजलम् ।। ८०६ ।। रुपूभ्यां कित् ।। ८०७ ॥ आभ्यां किडुः प्रत्ययो भवति || रुक् शब्दे | रुरुर्मृगजातिः ॥ पूम्रश् पवने | पूरू राजा ।। ८०७ ।। Aho! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy