SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ हेमचन्द्रव्याकरणे खनो लुक् च ।। ८०८ ॥ खनूग् अवदारणे | इत्यस्माद्रुः प्रत्ययो | भवति ] नस्य च लुग्भवति || खरु - दर्पः क्रूरो मूर्खो दृप्तो गीतविशेषव || ८०८ ॥ जनिहनिशद्यस्त च ॥ ८०९ ।। एभ्यो रुः प्रत्ययो भवत्यन्त्यस्य च तकारादेशो भवति || जनैौचे प्रादुर्भावे | जत्रुः शरीरावयवो मेघो घर्मवसानं च || हनंकू हिंसागत्योः | हत्रुर्हिसः || श शातने । शत्रू रिपुः | बाहुलकात्तादेशस्य विकल्पे | शत्रुः पुरुषः || ऋक् गतौ । अत्रुः क्षुद्रजन्तुः || ८०९ ॥ १३४ [Co८-८१५ इमनः शीडो डित् ॥ ८१० ॥ इमन्पूर्वीत् शोड्क् स्वने । इत्यस्माडिदुः प्रत्ययो भवति ॥ श्मश्रुर्मुखलोमानि ।। ८१० ॥ शिग्रुगेरुन मेर्वादयः || ८११ ॥ शिम्वादयः शब्दा रुप्रत्ययान्ता निपात्यन्ते || शिंग्ट् निशाने | किद्वोन्तश्च | शिशुः शोभाञ्जनको हरितकविशेषश्व || गिरतेरेश्च || गेरुर्धातुः || नमेर्नञ्पूर्वस्य मयतेर्वा | एच्चान्तः | नमेरुर्देववृक्षः || आदिग्रहणादन्येपि || ८११ ।। कटिकुड्यर्तेररुः || ८१२ ॥ एम्योरुः प्रत्ययो भवति || कटे वर्षावरणयोः कटरुः शकटम् || कुटत् कौटिल्ये | कुटरुः पक्षिविशेषो मर्कटो वृक्षो वर्धकिश्व || कुटादित्वान्न गुणः || कं गतौ । अररुरखर आयुधं मण्डलं च ।। ८१२ ।। कर्केrरुः || ८१३ ॥ कर्केः सौत्रादारुः प्रत्ययो भवति || कर्कारुः क्षुद्रत्रिर्मिटी || ८१३ ॥ उरादेरूदेत च || ८१४ ।। उर्वे हिंसायाम् । इत्यस्मादारुः प्रत्ययो भवत्यादेश्व ऊकार एकार आदेशो भवतः || ऊर्वारुः कटुचिर्मिटी || एवरुचारुचिर्मिटी || ८१४ ॥ कृपिक्षुधिपिकुणिभ्यः कित् || ८१५ || एभ्यः किदारुः प्रत्ययो भवति ॥ कृपौड् सामर्थ्य | कृपारुर्दयाशीलः || क्षुधं बुभुक्षायाम् | क्षुधारुः क्षुधमसहमान: । लब्वे | कृपालुः | क्षुधालुः || पींच् पाने । पियारुर्वृक्षः || कुणत् शब्देोपकरणयोः । कुणारुर्वनस्पतिः || ८१५ । Aho ! Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy