SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १३२ हेमचन्द्रव्याकरणे [७९४-८०० वरः ॥ उन्दैप् क्लेदने | उन्दनुः शुकः ।। णद अव्यक्ते शब्दे । नदनुर्मेघः सिंहथ ॥ वद व्यक्तायां वाचि । वदनुर्वक्ता || पतू गतौ । पतनुः श्येनः ।। आदिग्रहणादन्येपि || कित्त्वमकृत्वा डित्करणं वदेर्वृदभावार्थम् ।। ७९३ ॥ कृशेरानुक् ॥ ७९४ ॥ कृशच् तनुत्वे । इत्यस्मास्किदानुः प्रत्ययो भवति ।। कृशानुवह्निः॥७९४॥ जीवे रदानुक ॥ ७९५ ॥ जीव प्राणधारणे | इत्यस्मात्किद्रदानुः प्रत्ययो भवति || जीरदानुः || किकरणं गुणप्रविषेधार्थम् | वलोपे हि नाम्यन्तत्वाद्गुणः स्यात् ।। ७९५ ॥ वचेरनुः ॥ ७९६ ॥ वचं भाषणे । इत्यस्मादनुः प्रत्ययो भवति ॥ वचक्रुर्वाग्म्याचार्यो ब्राह्मण ऋषिश्च ॥ ७९६ ।। हृषिपुषिघुषिगदिमदिनन्दिगडिमण्डिजनिस्तनि ___ भ्यो रित्नुः ॥ ७९७ ।। एभ्यो ण्यन्तेभ्य इत्नुः प्रत्ययो भवति ।। हपच् तुष्टौ । हषू अलीके वा । हर्षयित्नुरानन्दः स्वजनो रोपजीवी प्रियंवदश्च || पुषंच पुष्टौ । पोषयिन्नुर्भा मेघः कोकिलश्च ।। धुषण विशब्दने । घोषयित्नुः कोकिलः शश्दश्च ।। गदण् गर्ने । गदयित्नुः पर्जन्यो वावदको भ्रमरः कामश्च || मदेच् हर्षे | मदयित्नुमदिरा सुवर्णमलंकारथ ।। टुनदु समृद्धौ | नन्दयिनुः पुत्र आनन्दः प्रमुदितश्च || गड सेचने | गडयित्नुर्बलाहकः ॥ मदु भूषायाम् । मण्डयित्नुमण्डयिता कामुकश्च ।। जनैचि प्रादुर्भावे । जनयित्नुः पिता || स्तनण् गर्ने | स्तनयित्नु मेघो मेघर्जितं च ||७९७|| कस्यतिभ्यामिपुक् ॥ ७९८ ।। ____ आभ्यां किदिपुः प्रत्ययो भवति || कस गतौ । कसिपुरशनम् ॥ ऋक् गतौ । रिपुः शत्रुः ।। ७९८ ॥ कम्यमिभ्यां बुः ॥ ७९९ ॥ आभ्यां बुः प्रत्ययो भवति || कमूड् कान्तौ । कम्वुः शङः ।। अम गतौ । अम्बु पानीयम् ।। ७९९ ॥ ___अधेरमुः ।। ८०० ॥ अभ्र गती । इत्यस्मादमुः प्रत्ययो भवति ।। अभ्रमुर्देवहस्तिनी ।। ८००। Aho I Shrutagyanam
SR No.034211
Book TitleUnadigana Sutra
Original Sutra AuthorHemchandracharya
Author
PublisherEducation Society Press
Publication Year1895
Total Pages314
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy