________________
मुहूर्तचिंतामणौ
दारियं बधिरतनौ दिवांधलग्ने वैधव्यं शिशुमरणं निशांधलने ॥ पंरवंगे निखिलधनानि नाशमीयुः सर्वत्राधिपगुरुदृष्टिभिर्न दोषः ।। ८३ ।।
दारिद्र्यमिति ॥ पंग्वंगे पंगुल | अन्यत्स्पष्टम् ॥ ८३ ॥ अथ विहितनवांशांश्चित्रपदाच्छंदसाह
१४८
कार्मुकतौलिककन्यायुग्मलवे झषगे वा ॥ यहि भवेदुपयामस्तर्हि सती खलु कन्या ॥ ८४ ॥
कार्मुकेति ॥ युग्मं मिथुनं एषां नवांशाः झषगे वा मीननवांशे विकल्पेन वाशब्द एकीयमतसूचनार्थः । एष्वंशेषु यहि उपयामो विवाहो भवेत्तर्हि कन्या सती पतिव्रता भवेत् ॥ ८४ ॥
अथ विहितनवांशे क्वचिन्निषेधं श्रीछंदसाह -
अंत्यनवांशे न च परिणेया काचन वर्गोत्तममिह हित्वा ॥ नो चरलग्ने चरलवयोगं तौलिमृगस्थे शशभृति कुर्यात् ॥ ८५ ॥ अंत्यनवांश इति ॥ विहितनवांशेष्वपि यथा मेषलग्ने धनुर्नवमांशोंऽतिम इत्येवं विधे विषये काचन कन्या न परिणेया न विवाह्या परंतु वर्गोत्तममंतिमनवांशं । हित्वा तत्र विवाह उचित एव । यथा मिथुन मिथुननवांशे | अंत्यांशका अपि श्रेष्ठा यदि वर्गोत्तमाह्वया इति कश्यपोक्तेः । नो चरलन इति । तौलिमृगस्थे तुलामकरस्थे चंद्रे चरलने विहितचरलवयोगं नो कुर्यात् । यथा मेषलने तुलांश इति ॥ ८५ ॥
अथ लग्नभंगमुपजात्याह
व्यये शनिः खेऽवनिजस्तृतीये भृगुस्तनौ चंद्रखला न शस्ताः ॥ लग्नेट् कविग्लश्च रिपौ मृतौ ग्लौलग्नेट्शुभाराश्च मदे च सर्वे ॥ ८६ ॥
व्यये शनिरिति ॥ द्वादशे शनिर्नो शस्तः खे दशमेऽवनिजो भौमो न शस्तः तृतीये शुक्रो न शस्तः लग्ने चंद्रखलाः चंद्रः पापग्रहाश्च न शस्ताः लग्नेट्लग्न स्वामी कविः शुक्रो ग्लौश्चंद्रश्च रिपौ षष्ठे न शस्ताः ग्लौचंद्रः लग्नेट् लग्नस्वामी शुभा बुधगुरुशुक्रा आरो भौमश्र एते मृतावष्टमे न शस्ताः मदे सप्तमे सर्वे ग्रहा न शस्ताः ॥ ८६ ॥
• अथ रेखाप्रदान्वसंततिलकयाह
व्यायाष्टषट्सु रविकेतुतमोऽर्कपुत्राख्यायारिगः क्षितिसुतो द्विगुणायगोऽब्जः ॥
Aho! Shrutgyanam
"