SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ विवाहप्रकरणम् । सप्तव्ययाष्टरहितौ ज्ञगुरू सितोऽष्ट. त्रिनषड्व्ययगृहान्परिहृत्य शस्तः ॥८७ ॥ न्यायेति ॥ स्पष्टार्थम् ॥ ८७ ॥ कर्तर्यादिमहादोषाणामपवादं शार्दूलविक्रीडितेनाह पापा कतरिकारको रिपुगृहे नीचास्तगी कर्तरी दोषो नैव सितेरिनीचगृहगे तत्पष्टदोषोऽपि न ॥ भौमेऽस्ते रिपुनीचगे नहि भवेद्भौमोऽष्टमो दोषकृनीचे नीचनवांशके शशिनि रिःफाष्टारिदोषोऽपि न ॥८॥ पापा कतरिकारकाविति ॥ कर्तरिकारको क्रूरौ ग्रहौ रिपुगृहे शत्रुगृहे स्थितौ नीचे नीचराशिगौ अस्तगौ अस्तं गतौ वा तदा कर्तरीदोषो नैव स्यात् । कश्यपः । पापयोः कर्तरीकोंः शत्रुनीचगृहस्थयोः । यदा चास्तगयोर्वापि कर्तरी नैव दोषदेति । अथ सिते शुक्रे अरिनीचगृहगे शत्रुगृहगे स्वनीचगृहगे वा सति तत्षष्ठदोषोऽपि न स्यात् । कश्यपः । नीचराशिगते शुक्रे शत्रुक्षेत्रगतेऽपि वा । भृगुषटस्थितो दोषो नास्ति तत्र न संशय इति। भौमेऽस्ते अस्तंगते रिपुनीचगे शत्रुगृहे नीचगृहे वाऽष्टमो भौमो दोषकन्न स्यात् । कश्यपः । अस्तगे नीचगे भौमे शत्रुक्षेत्रगतेऽपि वा। कुजाष्टमोद्भवो दोषो न किंचिदपि विद्यते ॥ अथ शशिनि चंद्रे नीचे नीचनवांशके वा सति द्वादशाष्टमषष्ठस्थानस्थितचंद्रदोषोऽपि न स्यात् । नीचराशिगते चंद्रे नीचांशकगतेऽपि वा । चंद्रे षष्ठाष्टरिःफस्थे दोषो नास्ति न संशय इति कश्यपोक्तेः ॥ ८॥ अथाब्ददोषाद्यनेकदोषापवादं वसंततिलकयाह अब्दायनर्तुतिथिमासभपक्षदग्धतिथ्यंधकाणबधिरांतमुखाश्च दोषाः॥ नश्यंति विद्गुरुसितेष्विह केंद्र कोणे तबच पापविधुयुक्तनवांशदोषः॥ ८९॥ अब्दायनेति ॥ विद्रुरुसितेषु केंद्रकोणे सप्तमस्थानरहितेषु सत्सु एते दोषाः नश्यति । कश्यपः । अब्दायनर्तुमासोत्थाः पक्षतिथ्यृक्षसंभवाः । ते सर्व नाशमायांति केंद्रसंस्थे शुभग्रहे ॥ काणांधवधिरोद्भूता दग्धलग्नतिर्भवाः । ते दोषा नाशमायांति केंद्रसंस्थे शुभग्रहे ॥ अकालजाश्च नीहारविद्युत्पांस्वभ्रसंभवाः । परिवेषप्रतीसूर्यशकचापध्वजादयः ॥ दोषप्रदा मंगलेषु कालजाश्चेन्न दोषदाः । गुरुरेकोऽपि केंद्रस्थः शुक्रो वा यदि वा बुधः ॥ हरेः १ नीचे इत्यपि पाठः। Aho ! Shrutgyanam
SR No.034207
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
AuthorRam
PublisherAnup Mishra
Publication Year1919
Total Pages248
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy