SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ विंशतिः३] मानसोल्लासः। कपिलैमूर्धजैर्युक्ता लेखनीया मनीषिमिः । - इति दैत्यदानवपिशाचवेतालमूर्तयः । क्षेत्रपालो विधातव्यो दिग्वासा झण्टिभूषितः ।। ८११ ॥ कृत्तिका डमरूं बिभ्रदक्षिणे तु करद्वये । वामे शूलं कपालं च मुण्डमालोपवीतिकाम् ॥ ८१२ ॥ करोटीनिकरोदारमालाग्रथितशेखरः। इति क्षेत्रपालमूर्तिः । वक्ष्ये मनसिजं देवमिक्षुचापधरं तथा ॥ ८१३ ॥ पञ्चपुष्पमयान्बाणान् विभ्राणं दक्षिणे करे । हरितं लोहितं वापि दिव्याभरणभूषितम् ॥ ८१४ ॥ किञ्चित्कुटिलसंस्थानं पुष्पमालाभिचारितम् । पीतं वस्त्रं वसानं च वसन्तेन समन्वितम् ॥ ८१५ ।। नानाकुसुमभूषेण कङ्कोलीपत्रवाससा । दाडिमीकर्णपूरेण कण्ठे बकुलमालिनी (नम् ) ॥ ८१६ ॥ चम्पकैः स्वर्णसङ्काशैः कृतशेखरमालिना (नम् ) । पार्थे चाश्वमुखः कार्यो मकरध्वजधारकः ॥ ८१७ ॥ भीतिदक्षिणभागेऽस्य भाजनोपस्करान्विता । वामभागे रतिः कार्या रन्तुकामा निरन्तरम् ॥ ८१८ ॥ शय्या तु सारसैयुक्ता वापिका नन्दनं वनम् । इति कामदेवमूर्तिः । रक्तवर्णो महातेजा द्विबाहुः पद्मभृद्रविः ॥ ८१९ ॥ सप्तभिस्तुरगैर्युक्ते सप्तरज्जुसमन्विते । एकचके रथे तिष्ठन्पाँदाक्रान्तसरोरुहः ॥ ८२० ॥ माणिक्यकुण्डलोदारः पद्मरागकिरीटकः । रक्ताम्बरधरी रम्यः सुव्यक्ताङ्गी मनोहरः ॥ ८२१ ॥ १ A रुप्टि B कु D कुल । २ D कम्। ३ D ठिनी। ४ D लोद्गू । ५ B D सदा । ६ D ना | VA पञ्च । ८B लया। ९ A वामे। १. F म्प । Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy