SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ७० मानसोल्लासः । वीणात्रिशूलहस्तश्च वृषारूढो जटाधरः । इति मातृकावर्णनम् श्रियं देवीं प्रवक्ष्यामि नवयौवनशालिनीम् ॥ ७९९ ॥ सुलोचनां चारुवक्त्रां गौराङ्गीमरुणाधराम् । सीमन्तं बिभ्रतीं शीर्षे मणिकुण्डलधारिणीम् ॥ ८०० ॥ श्रीफलं दक्षिणे पाणौ वामे पद्मं तु विभ्रतीम् । श्वेतपद्मासनासीनां श्वेतवस्त्रविभूषिताम् || ८०१ ॥ कचकावद्धगात्रीं" च मुक्ताहारविभूषिताम् । चामरैवीज्यमानां च योषिद्भयां पार्श्वयोर्द्वयोः ।। ८०२ ॥ सामगैस्तोष्यमानां (णां ) च भृङ्गारसलिलोस्करैः । इति श्रीमूर्तिलक्षणम् । नागानां वक्ष्यते रूपं नाभेरूर्ध्वं नराकृतिः ।। ८०३ ॥ सर्पाकारमधोभागे मस्तके योगमण्डलम् । एका फणा त्रयो वापि पञ्च वा सप्त वा नव ॥ ८०४ ॥ द्विजिह्वास्ते विधातव्याः खङ्गचर्मधरौ करौ । इति नागमूर्तिः । किरीटकुण्डलोपेता वदंष्ट्रा भयानका ।। ८०५ ।। नानाशस्त्रधराः कार्याः दैत्याः सुरगणद्विषः । दानवा विकृताकारा भ्रुकुटीकुटिलाननाः || ८०६ ॥ किरीटेन च कुब्जेन मण्डिताः शस्त्रपाणयः । दंष्ट्राकरालवदना भ्रुकुटीकुटिलेक्षणाः ।। ८०७ ॥ नानारूपा महाकाया नानाशस्त्रधरास्तथा । कुटिलाः कृष्णमेघाभाः स्थूलबाहुमहोदराः ॥ ८०८ ॥ उत्फुल्ला नासिका कार्या लेखने चित्र कोविदैः । अत्यर्थं कृशकायास्ते चर्मास्थिस्नायुविग्रहाः ।। ८०९ ।। ह्रस्वकीर्णशिरोजाः स्युः पिशाचाश्चित्रकर्मणि । teक्षा एव वेताला दीर्घदेहाः कृशोदराः || ८१० ॥ १ D त्रां । २ Aकं । ३ A दि । ४ A का । ५ D दि । Aho! Shrutgyanam [ अध्यायः १
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy