SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ मानसोल्लासः । पादौ तस्य प्रकर्तव्यौ सुमहत्तेजसा वृतौ । अनूरुः सारथिः कार्यः प्रतीहारौ च पार्श्वयोः || ८२२ ॥ दण्डपिङ्गलनामानौ खङ्गखेटकधारिणौ । धाता च लेखनीहस्तो जगत्कर्मविलेखकः || ८२३॥ कार्यो भानुसमीपस्थञ्चित्रकर्मविशारदैः । इति सूर्यमूर्तिः चन्द्रश्वित्रे विधातव्यः श्वेतः श्वेताम्बरावृतः || ८२४ ॥ दशश्वेताश्वसंयुक्तमारूढः स्यन्दनं शुभम् । द्विभुजो दक्षिणे पाणौ गदां बिभ्रत्पृषोदम् || ८२५ ॥ वामस्तु वरदो हस्तः शशाङ्कस्य निरूप्यते । इति चन्द्रमूर्तिः । धरापुत्रस्य वक्ष्यामि लक्षणं चित्रकर्मणि ॥ ८२६ ॥ चतुर्भुजो मेषगमश्राङ्गारसदृशद्युतिः । दक्षिणं वैर्द्धगं हस्तं वरदं परिकल्पयेत् ॥ ८२७ ॥ ऊर्ध्व (र्ध्व) शक्तिसमायुक्तं वामौ शूलगदाधरौ । इति भौममूर्तिः । सिंहारूढं बुधं वक्ष्ये कर्णिकारसमप्रभम् ॥ ८२८ ॥ पीतमाल्याम्बरधरं स्वर्णभूषाविभूषितम् । वरदं खङ्गसंयुक्तं खेटकेन समन्वितम् ॥ ८२९ ।। गदया च समायुक्तं बिभ्राणं दोचतुष्टयम् । इति बुधमूर्तिः । पीतो देवगुरुर्लेख्यः शुभ्रव भृगुनन्दनः || ८३० ॥ चतुर्भिर्वाहुभिर्युक्तश्चित्रकर्मविशारदैः । arat साक्षत्र कमण्डलुधरौ तथा ।। ८३१ ॥ १ A भानुः । २ B दक्षिणाधोहस्तं । ३ A तूर्ध्वगं । Aho! Shrutgyanam i अध्यायः R
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy