SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ अध्याय ः ३ ] मानसोल्लासः । रक्तोत्पलसमे नेत्रे स स्यादिन्द्रांशको गजः । समरे विजयं दद्यात् परभूपालसम्पदः ।। २३९ ॥ ताम्रावोष्ठौ तथा जिह्वा धात्रीफलसमद्युतिः । नयने रदनौ यस्य कुसुमोदकसन्निभम् (भौ) ॥ २४० ॥ धनदांशसमुद्भूतो धनरत्नसमृद्धिकृत् । नृपाणां भवने तिष्ठन् पूजितः कुअरोत्तमः || २४१ || कृष्णमेघनिभो वर्णे स्त्यान सर्पिः सदग्रहः । आसने सुभगो मूर्ध्नि गम्भीरघनगर्जितः || २४२ ॥ स्रवति प्रचुरं दानं वरुगांशकसम्भवः । आवे रिपुसंहारी निजभर्तुर्जयप्रदः ॥ २४३ ॥ त्रिलीमण्डितः कण्ठे क्षौद्रपिङ्गविलोचनः । केतकच्छायदशनः पृथुरक्ताग्रपल्लवः || २४४ || बिन्दुमान् पाण्डुवर्णश्च शशाङ्कांशकसम्भवः । सङ्गराङ्गणे राज्ञां गजोऽयं विजयप्रदः ॥ २४५ ॥ अग्निज्वालासहग्रोमा केशवालेषु पिङ्गलः । पिङ्गाक्षः पिङ्गतालुच पिङ्गपुष्करशोभितः || २४६ || अग्न्यंशसमुद्भूतः साक्षाद् वह्निरिवाहवे । भस्मसात्कुरुते सैन्यमशेषं द्विषतां सदा ॥ २४७ ॥ कृष्णा यस्य तनो छाया गौरी चाक्ष्णोश्च कर्णयोः । नखा दीपशिखाभासा निविडा मांसला तनुः ॥ २४८ ॥ अग्निमारुतयोरंशसंजातः कोपनो जवी । तस्य दोषोऽयमेकः स्यादङ्कुशं यन्न मन्यते ॥ २४९ ॥ दोषाभासो गुणस्तस्य सञ्जाते समरोत्सवे । प्रचण्डत्वाद् भयं धत्ते रिपुसैन्येष्वयं गजः ॥ २५० ॥ Aho! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy