SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ५० मानसोल्लासः । बृंहितं मेघगम्भीरं लोहितं पुष्करं वरम् । अङ्गुली वर्तुळा दीर्घा गौरश्यामा तनो | छविः ॥ २२८ ॥ शुभं लक्षणमेतत् स्याद् गजानां जयकारिणाम् । तस्माल्लक्षणसंयुक्ता गजा ग्राह्या महीभुजा ।। २२९ ।। इति गजशुभलक्षणम् ॥ अतो यदन्यत तत् सर्वे विरूपं विकृतं च यत् । न्यूनाधिकं तु यद्रूपं तत्सर्वमशुभं विदुः ॥ २३० ॥ [विंशतिः २ हीनलक्षणसंयुक्ता गजास्त्याज्या महीभुजा । दुर्भिक्षशोकभयदा लोचनोद्वेगकारिणः ॥ २३१ ॥ गति - चेष्टा-स्वरान् यस्य सत्त्वस्यानुकरोति यत् । अनूकमिति तद् ज्ञेयं गजचेष्टितकोविदैः ॥ २३२ ॥ शुभानां प्राणिनां चेष्टां शुभानूकं वरं हि तत् । निन्दितानां तथा चेष्टामनूकं निन्दितं विदुः ॥ २३३ ॥ सुव्यक्ता विन्दवो यस्य गौरो वर्णो मनोहरः । लोहितौ नेत्रयोः प्रान्तौ स्निन्धौ च बलिनौ रदौ ॥ २३४ ॥ एवं लक्षणसम्पूर्णो गजो ब्रह्मांशको मतः । पूजाऽसौ नरेन्द्राणां विजयारोग्यवर्धनः ।। २३५ ॥ कक्षाभागे तथा कण्ठे यः समः पृथुलासनः । मुखे कोकनदच्छायो युग्मरोमविराजितः || २३६ ॥ बहुकालमदः शूरो मेघनादेन हृष्यति । प्रजापत्यंशको नागः प्रजावृद्धिकरो ह्यसौ ॥ २३७ ॥ बिन्दवो वलिरेखा वा दृश्यन्ते यस्य वर्ष्मणि । स्वस्तिकैर्वर्धमानाब्जैर्नन्द्यावर्तैश्च सन्निभाः ॥ २३८ ॥ Aho ! Shrutgyanam
SR No.034204
Book TitleMansollas Satik Part 01
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1967
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy