SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ १आदिपर्व-सर्गः] बालभारतम् । वेगादमूर्नुपसमूहचमूर्विमूल्य __ भीमो जिगाय समरप्रसरेण शल्यम् । चापं तमेव युधि देवपतेः सुतोऽय मासाद्य कर्णमपवर्णमथ व्यधत्त ॥ १११ ॥ नायं नयो भुजभृतामिति ते निकामं दामोदरेण युधि तत्त्वविदा निषिद्धाः ।। जग्मुर्नृपा निजपदान्यथ तेऽपि पाण्डु पुत्राः कुलालकुलसीनि समं कुमार्या ॥ ११२ ।। तानागतानथ जगाद पृथाद्य भिक्षा भोज्यैव पञ्चभिरभेदपरैमिलित्वा । मा भूदसत्यवचना जननीति तेऽपि पञ्चापि तत्परिणये समयं वितेनुः ॥ ११३ ॥ आलोक्य भूपतनयामथ किं मयोक्त मित्याकुलां स्वजननी प्रतिबोध्य धीराः। स्नेहादुपेत्य हरिसीरियुगे प्रयाते भिक्षार्थिनः पुरि गताश्च समागताश्च ॥ ११४ ॥ मातुः पुरस्तदनु धर्मसुतान्विताया मिक्षां तदा निजनिजाममुचन्दिनान्ते । दृष्टापदो द्रुपदभूपसुता न ताप मन्तस्तदाप किमु वच्मि मनः सतीनाम् ॥ ११५ ॥ कृत्वा बलिं द्विजजनाय वितीर्य भिक्षां दत्वाथ याचककुलाय ततः कुलीनाः । कुन्तीगिरा द्रुपदसूरदितान्नमर्धं भीमाय शेषमकरोन्मुदिता षडंशम् ॥ ११६ ॥ सुप्तास्ततो निशि भटा दिशि दक्षिणस्यां कृत्वा शिरांसि कुशकल्पिततल्पभाजः । Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy