SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । तेषां स्थिता शिरसि भोजसुता पदान्ते कृष्णा च क्लृप्तसमरायुधशौर्यवाचाम् ॥ ११७ ॥ तेषां नृपोचितवचांसि निशम्य धृष्ट द्युम्नः कुलालगृहसीमनि कुड्यगुप्तः । प्रातर्त्यवेदयदिति द्रुपदाय सर्व सर्वसहापतिसुताः किल केचिदेते ॥ ११८ ॥ क्षत्राणि तानथ पुरोहितयोजनेन निश्चित्य पाण्डुनृपनन्दनविभ्रमेण । आनीय सद्मनि रथैरथ भोजयित्वा पृष्टो यथातथमुवाच युधिष्ठिरोऽमै ॥ ११९ ।। चण्डांशूज्ज्वलदुज्ज्वलोज्ज्वलमहःस्तोमाय सोमायित क्रीडत्कीर्तिभराय वासवभुवे देया मुदेयं सुता । एवं जल्पति पार्षते निजगदे धर्मात्मनासौ प्रिया पञ्चानामपि नो भविष्यति मनःश्रीरिन्द्रियाणामिव ॥ १२० ॥ पञ्चानामपि किमिव प्रिया भवित्री मैत्पुत्री वदति च धर्मसूः किमित्थम् । संदेहाम्बुधिविधुरात्मवृत्तिरित्थं वीरोऽपि द्रुपदनृपस्तदाप मौग्ध्यम् ॥ १२१ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रविरचिते श्रीबालभारतनाम्नि महाकाव्ये वीराङ्के आदिपर्वणि द्रौपदीस्वयंवरो नाम पञ्चमः सर्गः । षष्ठः सर्गः । अन्तधुतानाममलेन धाम्ना बहिर्महाभारतजैर्यशोभिः । तमस्त्विषां येन तनुत्वगेव पदं ददे कृष्णमुनिर्मदेऽसौ ॥ १ ॥ अथ क्षितीशं द्रुपदं तदा किंकर्तव्यतामूढमुदूढचिन्तम् । उपेत्य क्लप्तप्रणति जगाद व्यासो रहः सर्वरहस्यवेदी ॥ २ ॥ १. 'पुत्री मे' ग. Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy