SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ६४ काव्यमाला । राजन्यगर्वगिरिवज्ररवं चकार टंकारमिन्द्रतनुजोऽथ धनुर्गुणस्य ॥ १०४ ॥ रोगास्पदद्रुपदराजसुतावलोकपीयूषकन्दलितसान्द्रभुजाबलेन । पार्थेन पार्षतचमत्कृतविक्रमेण वेध्यं व्यपाति भुवि मार्गणलीलयैव ॥ १०५ ॥ उत्तालतालतरलेषु तदा जनेषु खे दुन्दुभिध्वनिपरेषु च दैवतेषु । कृष्णाननेषु च नृपेषु पितुर्गिराथ कृष्णार्जुनस्य वरमाल्यमयुङ्क्त कण्ठे ॥ १०६ ॥ अस्मान्व्यडम्बयदसौ बटुमात्रकाय पुत्रीं ददाविति तदा द्रुपदाय दूनाः । तत्र स्वयंवरसभाभुवि भूभुजंगाः क्षोभास्पदं सपदि शस्त्रभृतोऽभ्यधावन् ॥ १०७ ॥ भीमार्जुनौ तदिह संनिहितौ हिताय तेनाश्रितौ हरिहराविव दुर्निरीक्षौ । उत्पाट्य पादपमुदारमदातिभीमो भीमोऽथ पार्थिवचमूरुदमूलत्ताः ॥ १०८ ॥ हारानपि स्वकुसुमप्रतिमान्स्वकीय शाखासमानपि भुजानसमञ्जसेऽस्मिन् । ( युग्मम्) मौलीनपि स्वफलजालसमान्नृपाणां चिच्छेद भीमकलितः स तरुः क्रुधेव ॥ १०९ ॥ उर्वीरुहस्य कुसुमानि यशांसि राज्ञां तस्य च्छदानि पुनराभरणानि तेषाम् । भीमाहवव्यतिकरे जगलुः सहैव किंतु स्वयं निपतितो न स ते तु पेतुः ॥ ११० ॥ Aho ! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy