________________
काव्यमाला।
अभ्यर्च्य चापमथ वाचमुवाच धृष्ट
द्युम्नः कराम्बुजमुदश्श्य मुदा सदोऽन्तः । यः कश्चन स्पृहयति द्रुपदात्मजायै
राधां स विध्यतु धनुर्धरधैर्यधुर्यः ॥ ९२ ॥ इत्युक्तिभाजि पृषतान्वयमौलिरत्ने
यत्नं न के क्षितिभुजो विदधुर्भुजालाः । तत्राधिरोपणविधावपि कोऽपि किंतु
दी धनुर्निबिडितानिकषो न जातः ॥ ९३ ॥ केचिद्धनुःप्रगुणनेऽप्यभवन्विलक्षा
न प्राग्यशः क्षयभिया किलकेऽप्युदस्थुः । मञ्चाच्चचाल तदनु द्विजवेषधारी
भीमानुजो गजगतिः सममग्रजेन ॥ ९४ ॥ मूर्त्या त्विषा च गमनेन च लीलया च
राजन्यकस्य हृदि दत्तपदौ तदानीम् । एतौ समीरसुरराजसुताविति श्री. चित्तेशभीष्मगुरुभिर्विनियम्यमानौ ॥ ९५॥ किं भूचरौ तरणिशीतरुची किमन्यौ . रामाच्युतौ किमु गणेशगुहाविहैतौ । एतौ पुनः किमुदितौ रघुराँजपुत्रा_ वित्याकुलैर्नुपकुलैः सहसैव दृष्टौ ॥ ९६ ॥ आश्लिष्यतामथ भुजाविव विक्रमस्य
मूर्ती सभाग्रभुवमेकधनुर्भुवं तौ । नत्वा कृते धनुषि सज्जगुणेऽर्जुनेन . भीमो मदादिदमुवाच अवामधीशान् ॥ ९७ ॥
(त्रिभिर्विशेषकम्) १. 'सभासदोऽन्तः' क. २. 'निकषः परीक्षकः' इति ग-पुस्तकटिप्पणी. ३. बलभद्रकृष्णौ. ४. 'नाथ' क. ५. 'दिशा' क.
Aho! Shrutgyanam