SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ १ आदिपर्व - १ सर्गः ] बालभारतम् । सूर्यात्मजामिलितजहु सुता सहस्रभ्रान्त्या सहर्षवरसप्तमहर्षिदृष्टाः । वेलन्ति धूप नधूमघटाभिराभि रुद्भासिता नभसि वाततताः पताकाः ॥ ७३ ॥ आसन्नदर्शननरेन्द्रसुताननेन्दु प्रोज्जागरस्य नृपसंमदसागरस्य । वेलातरङ्गरवराशिरिवान्तरिक्ष कुक्षिंभरिः करटिगर्जिततूर्यनादः ॥ ७४ ॥ अस्मत्पतेः सितरुचेरपि चारुरूपमाहुर्विदों द्रुपदराजसुतोमुखेन्दुम् । इत्येत्य पुष्पगृहपुष्पमिषेण तारा स्तद्वीक्ष्य जग्मुरलिभिर्मलिनाननत्वम् ॥ ७९ ॥ इत्युन्मदः कृतगिरो धृतविप्रवेषा स्ते शिश्रियुर्द्विज समाजविराजितं यम् । मञ्चः स पञ्चभिरमीभिररातिजातिदर्पद्विपप्रलयपञ्चमुखश्चकासे ॥ ७६ ॥ दास्यान्पृथातनुभुवे द्रुपदः कुमारी ज्ञातुं च तं धनुरचीकरदत्युदारम् । वैहायसाख्यकृतयन्त्रगतं च लक्ष्यं पुत्रीविवाहपणमत्र कृती ततान ॥ ७७ ॥ आबिभ्रती कुसुमकार्मुक कार्मुकाभं पाणी स्वयंवरणमाल्यमथो कुमारी । शृङ्गारसागरतरङ्गकरङ्गदम्बु बिन्दूपमा भ्रमरराशिरवाप रङ्गम् ॥ ७८ ॥ मुक्तावलीमय किरीटमरीचिवारगुच्छानुकारविमलातपवारणश्रीः । १. 'घट' क ख २. 'आनन' क. · - Aho ! Shrutgyanam १९
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy