SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ५८ काव्यमाला | कुम्भीनसी तदबलाथ पृथां नृपं च दैन्यान्ननाम तदमुच्यत सोऽर्जुनेन ॥ ६६ ॥ मैत्र्यं चकार सह तेन पृथातनूजस्तस्मै ददौ दहनमन्त्रमयं च शस्त्रम् । पार्थाय सोऽप्यदित विश्वदृशं च विद्यां मेने युधे च हयपञ्चशतीमभेद्याम् ॥ ६७ ॥ उत्कोचकाख्यशुचितीर्थपतिं विधाय धौम्यं पुरोहितमभी सुहृदोऽथ वाचा | वाचस्पतिव्यतिकरप्रहतोपसर्गा न्स्वर्गौकसोऽप्यजगणन्न तृणाय पार्थाः ॥ ६८ ॥ गत्वा पुरे द्रुपदभूमिधवस्य मात्रां मात्रा समं किल कुलालगृहं विमुच्य । ते जम्मुराशु रमणीपणभूतराधा वेधव्यधाय नृपसंसदि षोडशेऽह्नि ॥ ६९ ॥ वीक्ष्य स्वयंवरणमण्डलमग्रतोऽथ व्याचष्ट धर्मतनुजोऽनुजमण्डलाय । स्वर्गोऽवतारित इव द्रुपदेन सोऽयं न्यक्कुर्वता पुरुषकारवशेन दैवम् ॥ ७० ॥ तस्यास्ततेषु निजकुण्डभुवो विवाह यज्ञेषु रत्नमयमञ्चचयच्छलेन । आश्चर्यमग्नहृदयः स्वयमत्र चित्र - विन्यस्तमूर्तिरिव पश्यति पावकोऽपि ॥ ७१ ॥ आकारितासु चलचन्दनमालयैव भ्रूसंज्ञया नृपतिपङ्क्तिषु मण्डपोऽयम् । कन्यानुरूपमिह भूपमवीक्ष्य कंचि दुच्चैः समाह्वयति केतुकरैः सुरेन्द्रान् ॥ ७२ ॥ Aho ! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy