SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ५४ काव्यमाला | इत्यट्टहासमिव यं गृहवंशदा है वह्निश्वकार मिलितस्तत एव लोकः ॥ ४० ॥ धिक्त्वां मुखं मखभुजां धिगपि द्विजास्त्वामर्चन्ति धिक्च शुचितां तव येन दग्धः । दैत्यावतारधृतराष्ट्रसुतप्रियार्थं देवद्विजप्रियतमश्च शुचिश्च राजा ॥ ४१ ॥ इत्यात्मनः किल कलङ्कमलीकमेव यच्छन्तमुच्छ लितशोकमतीव लोकम् । कान्त्या हसन्निव शिखी पथि गच्छतस्ता नालोकताम्बर निखातशिखातरङ्गः ॥ ४२ ॥ ( युग्मम् ) सौभाग्यभाग्यशुचितादिगुणैर्न केषां नेत्रप्रियाः समभवन्भुवि पाण्डवास्ते । तद्दाहनिश्वयवशादिति नागराणां नेत्रैरमोचि जलमग्निशमाय मन्ये ॥ ४३ ॥ हा धर्म कर्मपर हा निजबान्धवैकप्राकार हा कलशयोनिकुलैकधुर्य । हा रूपसंभ्रमनिधी व गता भवन्तो लोकारवैरिति निशाप्यसुखाद्विलिल्ये ॥ ४४ ॥ दुर्योधनस्य सुहृदेष युधिष्ठिरादिव्यापादने व्यवसितोऽयमिति क्रुधार्तः । प्रातः प्रदग्धवपुषोऽपि पुरोचनस्य लोकः कपालमपिषदृढपादघातैः ॥ ४१ ॥ तां वीक्ष्य पञ्चतनयां च पुरो निषादीं चक्रन्द मातृयुतवीरधियैव लोकः । तच्चाङ्घ्रिचारितरजः प्रसरैः सुरङ्गा द्वारं चकार खनकः स लसन्नलक्ष्यम् ॥ ४६ ॥ Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy