________________
१ आदिपर्व - ५ सर्गः ]
बालभारतम् ।
विश्वस्तवद्भृशमिहैव गृहे सुरङ्गां निर्माय नाशकृतये सततं वसामः ।
दाहक्षणे खलु मृता इति वञ्चयित्वा दुर्योधनं च सचिवं च सुखं चरामः ॥ ३४ ॥ एवं प्रकाश्य नृपमत्र वसन्तमेत्य
कोऽप्याह गुप्तखनको विदुरप्रयुक्तः । वर्षोषितान्निशि शठः सचिवोऽत्र कृष्णपक्षे स यहि बताति चतुर्दशे वा ॥ ३५ ॥ यत्फाल्गुनाष्टमदिने पुरमेतदेतत्स्वामिन्भवांस्तदवधारयतां दिनं तत् ।
मित्रं स्वमेव खनकं विदुरः सुरङ्गां निर्मातुमातुरतया खलु मां न्ययुङ्क्त ॥ ३६ ॥ मत्त्वेति राज्ञि सहसा रहसि प्रपन्ने
तेन व्यधायि खनकेन गृहे सुरङ्गा ।
तद्दाहकर्मणि शठः स पुरोचनोऽपि
चक्रे मतिं जतुगृहाग्रगृहाधिवासी ॥ ३७ ॥ पञ्चाङ्गजामशनदानमिषान्निषादीमत्राधिवास्य सुमतिर्नृपतिर्निशीथे ॥
भीमेन मन्त्रि भवने च विमोच्य वह्नि
-
कुन्त्या युतो विवरेण ययौ सबन्धुः ॥ ३८ ॥ धूमैर्मुहुर्मलिनयञ्जगदन्तरालं
दुर्योधनस्य विदितैरिव दुर्यशोभिः ।
साकं शठेन सचिवेन पुरोचनेन दूरादथो जतुगृहं दहनो ददाह ॥ ३९ ॥
दिया ययौ स जगदेकसुहृत्पृथाभूः लष्टो मयाधमतमश्च पुरोचनोऽपि ।
१. ग - पुस्तके सर्वत्र 'सुरुङ्गा' इति दृश्यते. २. 'अथ' क. ३. 'अपि' क.
Aho ! Shrutgyanam
५३