SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ १आदिपर्व-५सर्गः] बालभारतम् । आसीत्तवेप्सितमगुर्दिवि पाण्डुपुत्रा__ स्त्वद्दीपिताग्निजतुमन्दिरकंदरस्थाः । राज्यं चिरं कुरु पुरीपुरुषप्रयुक्तां श्रुत्वा कथामिति रुरोद भृशं नृपोऽन्धः ॥ ४७ ॥ मन्त्रज्ञभूपतनुभूविदुरादिवजे लोकेऽखिलेऽपि खलु निर्भरजातशोके । सर्वोर्ध्वदैहिकविधानविधीनमीषा__ मेष स्वयं क्षितिधवो रचयांचकार ॥ ४८ ॥ तेऽप्यग्निदग्धसदनादिशि दक्षिणस्यां कुन्तीसुता ययुरहर्निशमप्रमत्ताः । गङ्गां कदाचन विलङ्घय निदाघकाले सायं स्थिता गहनसीम्नि वटस्य मूले ॥ १९ ॥ भीमोऽथ सारसरवानुपसृत्य तूर्ण तृष्णार्तबन्धुकृतये ह्रदसीम्नि यातः । पीत्वा पयः स्नपनमप्ययमारचय्य धीरः पुटीरचितनीरभरः समेतः ॥ ५० ॥ बालप्रवालशयनीयविलासयोग्या न्बन्धून्विलोक्य जननी च भुवि प्रसुप्ताम् । धिग्दुर्विधेविलसितानि बलं च धिने ध्यायन्निदं हृदि सरोद वृकोदरोऽसौ ॥ ११ ॥ दृष्ट्वा च तानिह वने क्षुधितो न्ययुत ___ हन्तुं हिडम्बपलभुग्भगिनी हिडम्बाम् । तस्यां पुनः स्ववशताजुषि स प्रकुप्य भीमेन हन्त निहतो हरिणेव दन्ती ॥ १२ ॥ कामार्तिदीनवचनामथ तां हिडम्बां मातुनूपस्य च गिरा भजति स भीमः । १. 'अथ' ख-ग. Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy