SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ५२ काव्यमाला । नत्वा नृपः कृपकृपीपतिभीष्ममुख्याश्री वारणावतपुराय ततः प्रतस्थे ॥ २७ ॥ पौरान्विसृज्य सकलान्स कलाभिरामः शिक्षाप्रदानविदुरं विदुरं च नत्वा । कुन्तीयुतः सह सहोदर मण्डलेन तत्पत्तनं विदितहर्षपदं प्रपेदे ॥ २८ ॥ तन्नागसाह्वयमभूदपभूति तस्मिं स्तद्वारणावतपुरं त्वतिभूति याते । यन्मुञ्चते दिनकरः किल तत्र रात्रि - दीव्यति विभुर्दिवसो हि तत्र ॥ २९ ॥ कूटाशयेन सचिवेन पुरोचनेन प्राक्प्रेषितेन रिपुभिर्धृतराष्ट्रपुत्रैः । निर्मार्पितं जतुगृहं दहनैकयोग्यं नीतश्छलेन दशमेऽह्नि पृथातनूजः ॥ ३० ॥ तन्मुञ्जसर्जरसयावकवंशकाश सर्पिः शणप्रभृतिभिर्द्रविणैः प्रक्लृप्तम् । आग्नेयमेतदिति सद्म विभाव्य गन्धै धर्माङ्गभूरिदमभाषत भीममुख्यान् ॥ ३१ ॥ शङ्कयं सदा हुतवहाच विषाच्च दिक्षु युष्माकमस्त्यविदितो न च कोऽपि पन्थाः । शिक्षामिमामदित मे विदुरस्तदानी मागच्छतः पथि वचोभिरमूढमूढैः ॥ ३२ ॥ शिक्षेयमद्य विदिता सदनेऽत्र नेत्रमार्ग गते हुतवहर्द्रविणैकक्कॢप्ते । मन्ये पुरोचनममुं च सुयोधनार्थे विश्वासघातिनमिति प्रथितप्रपञ्चम् ॥ ३३ ॥ १. 'प्रेरितेन' ख. २. 'द्रविणावकृप्ते' ग. Aho ! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy