SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ १आदिपर्व-६सर्गः] बालभारतम् । द्रोणाज्ञयाथ विदितां मुदितोऽस्त्रविद्यां विद्योतमानविनयस्तनयः पृथायाः । भूपेषु विस्मयरसप्रसरेण चित्र रूपेष्वदीदृशदनीदृशविक्रमश्रीः ॥ ८ ॥ धीरैर्गुणध्वनिभिरर्जुनकार्मुकस्य त्रस्तस्तदा दिनपतेर्बुवमष्टमोऽश्वः। तन्मुक्तमार्गणगणप्रभवैरदायि _भ्रान्तिस्तदैव दिवि गन्धवहेभ्यः ॥ ९ ॥ आसीत्तदार्जुनधनुर्गुणमुक्तबाण__पक्षोद्भवो नभसि कोऽपि भृशं स वायुः । उन्मूलितारिकुलमानमहीरुहेण येनाघटि क्षितिभृतामपि मौलिकम्पः ॥ १० ॥ आसीद्गुरुर्गिरिरिवाणुरिवातिसूक्ष्मो दृश्यस्तडिल्लव इव द्रुतमप्यदृश्यः । सोऽभ्युत्पपात पतगेन्द्र इवान्तरिक्ष सारस्वतौघ इव भूमितलं विवेश ॥ ११ ॥ नीरं यशो निजमिव स्वमिव प्रताप___ मग्निं स्वकीयमिव गौरवमद्रिजालम् । तन्वन्निति क्षितिपभूर्विभवद्विभावो दिव्यास्त्रदर्शनरसः स तदा मुदेऽभूत् ॥ १२ ॥ सर्वास्त्रकौशलकलाकलितेऽथ तस्मि नित्थं स्थिते भुजभुजिष्यभुजंगराजे ।। लोकस्तदाननविलोकरसस्तदाभू हृद्धश्चमत्कृतिगुणैरिव निश्चलाङ्गः ॥ १३ ॥ दासीकृतक्षयपयोधितरङ्गभङ्गः किंकारिताद्रिभरभैरववज्रपातः । १. 'मुनितः' ग. २. सरस्वतीप्रवाहः. Aho! Shrutgyanam:
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy