SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। तद्रव्यमानजगदिष्टपुराणवाणी गर्भाद्रलद्भिरमृतैरमृतांशुरासीत् ॥ १ ॥ विस्तारशालिनि कुमारकुलश्रमेक्षा हेतोः कृती विदुरदर्शितभूमिभागे । भीष्मोऽन्यदा गुरुगिरा नगरस्य बाह्ये प्रापञ्चयत्किमपि मञ्चकचक्रवालम् ॥ २ ॥ भीष्मादिकेषु धृतराष्ट्रपुरोगमेषु __भूपेषु भूरिषु विभूषितमञ्चकेषु । रङ्गं प्रविश्य गुरुरुज्ज्वलवेषधारी पुत्रान्वितो बलिविधि विधिवद्यधत्त ॥ ३ ॥ नानाविधप्रहरणग्रहणप्रवीणा ___ वीणामृदङ्गपटहादिषु वादितेषु । पादाङ्गुलिस्थितनतोन्नतलोकदृष्टा हृष्टास्ततोऽङ्कमविशन्वशिनः कुमाराः ।। ४ ॥ आज्ञां गुरोर्गुणगुरोरधिगम्य वीरा धर्माङ्गजप्रभृतयोऽथ पृथुप्रभावाः । तत्रास्त्रविस्तृतिकलातनुलाघवानि भूजानिमण्डलमुदे कलयांबभूवुः ॥ ५ ॥ उद्यद्गदौ कृतमदौ तदनु प्रवीरौ वन्यद्विपाविव विकखरचण्डशुण्डौ । विक्षोभिताखिलसभौ रभसेन भीम दुर्योधनौ निजमदर्शयतां विरोधम् ॥ ६ ॥ दुर्वारवैरघनयोरनयोरिदानी क्षोभेण मा भवतु भेदभयं सभायाः । अन्तस्तयोर्गुरुगिरेति निरोद्धुमश्व स्थाम्ना स्थितं गिरिवरेण गरीयसेव ॥ ७ ॥ १. 'गद्यमान' ग. २. 'स्थिति' ग. Aho! Shrutgyanam
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy