SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ७ द्रोणपर्व - ३ सर्गः ] बालभारतम् । ततः पतत्रिप्रकरैः पराङ्मुखं विरच्य नाराचरुंचा गुरोः सुतम् । असृक्प्रभायन्त्रितसांध्यविभ्रमाञ्जवान संधानवनीभृतां नरः ॥ १७२ ॥ यांहिधूतानपि रक्तवाहिनी प्रभावबिन्दू मुदितान्पदे पदे । त्वरातिरेकादभिवञ्चयन्ययौ जयद्रथेच्छोर्जयिनस्तदा रथः ॥ १७३ ॥ तदा हरीणामपि कृष्णयोरपि द्युतिस्त्वरादीर्घतैरैव मिश्रिता । मुद्दा भटैः संयति जह्नुनन्दिनीकलिन्दजासङ्गनिभा व्यभात्यत ॥ १७४ ॥ सव्यसाची रविरिव प्रत्यङ्गाप्तशिलीमुखम् । इतस्ततः कीर्णदलं पद्मव्यूहमथ व्यधात् ॥ १७५ ॥ विगाह्य वाहिनीं पद्मव्यूहोद्दलनलालसे । नरे नाग इवान्ते राजहंसैः पलायितम् ॥ १७६ ॥ महारथघटागुप्तपाशस्थितजयद्रथम् । सव्यसाची ततः सूचीव्यूहं निचितमाविशत् ॥ १७७ ॥ उद्यत्कीलालकीलालिमालिनं मारुतिस्तदा । अम्युज्ज्वलगदाहस्तो ददाह स्तोममस्त्रिणाम् ॥ १७८ ॥ सात्यकेनिघ्नतः शत्रून्मुहुर्धन्व नतोन्नतम् | निमेषोन्मेषभृन्मृत्योर्विलोचनमिवावभौ ॥ १७९ ॥ धन्विना युयुधानेन युधानेन क्रुधार्दितम् । कौरवेन्द्रमहाचक्रं ह हा चक्रन्द तत्तदा ॥ १८० ॥ अलं वृषनृपस्यैष खे चिक्षेप शरैः शिरः । यद्विधुंतुवद्वीक्ष्य वित्रस्तं राजमण्डलम् || १८१ ॥ अपात्यन्त शरैस्तेन वीरा पञ्चशतीमिताः । क्ष्मासंमुखाः पतङ्गस्य करा इव दिवस्तदा ।। १८२ ॥ नृपाङ्घ्रिपार्श्विमृगन्तं यूथेशमिव केसरी | भूरिश्रवाः समभ्यायाद्भूपस्तं यूपकेतनः ॥ १८३ ॥ १. 'रुषा' ख. २. 'हता' ख. ३. 'तरैर्विमि' क. १. 'लालसैः' ख. ६. 'विनिघ्नन्तं' ख. ७. 'भ्यागात् ' ख. Aho ! Shrutgyanam ३५५ ४. 'व्यभाव्यत' ग.
SR No.034192
Book TitleBalbharata
Original Sutra AuthorN/A
AuthorAmarchandrasuri, Shivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy